ते धी॒तिभि॒र्मन᳚सा॒ ते वि᳚प॒श्चितः᳚ परि॒भुव॒ः परि᳚ भवन्ति वि॒श्वतः᳚ ॥
पदपाठः (Word-by-word)
ते । धी॒ति॑भिः᳚ । मन᳚सा । ते । वि॒पः॒॑चितः᳚ । प॒रि॒॑भुवः᳚ । परि᳚ । भ॒व॒न्ति॒ । वि॒श्वतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सप्त सर्पणस्वभावाः सप्तसंख्यावारश्मयः अर्धगर्भाः संवत्सरस्यार्धे गर्भंगर्भस्थानीयमुदकं धारय- माणाः यद्वा ब्रह्माण्डस्यार्धेमध्येन्तरिक्षे गर्भवद्वर्तमानाः भुवनस्यलोकस्यरेतः सारंवृष्टिप्रदत्वेनरेतो- भूताः तादृशारश्मयोविष्णोर्व्यापकस्यादित्यस्य विधर्मणिजगद्धारणव्यापारे प्रदिशा प्रदेशेन तिष्ठ- न्तिवर्तन्ते किञ्च तेधीतिभिः प्रज्ञाभिः मनसाजगदुपकारः कर्तव्यइतिबुद्ध्याच विश्वतः सर्वतः द्विती- यार्थेतसिः विश्वंपरिभवन्ति परितोभावयन्ति कृत्स्नंजगद्भ्याप्नुवन्तीत्यर्थः यस्मादेवंतस्मात् तेतएव- विपश्चितोबुद्धियुक्ताः परिभुवः सर्वत्रव्याप्ताश्च यद्वा सप्तार्धगर्भाः सप्त महदहंकारौपञ्चतन्मात्राणीति- मिलित्वा सप्तसंख्यानितत्त्वानि अर्धगर्भाः अविकृतिरूपाः विकाराश्र्यायाः मूलप्रकृतेःप्रकृतिविकृतेरु- दासीनस्यात्मनश्चोत्पन्नत्वादर्धांशेनप्रपञ्चाकारेणपरिणामादर्धगर्भाः पुरुषांशस्याविक्रियत्वादित्यभि- प्रायः अतएवतेषांप्रकृतिविकृतित्वं यस्मादेवंतस्माद्भुवनस्य रेतः कारणंकारणभूतानि तान्येव वि- ष्णोर्व्याप्तस्यपुरुषस्यविधर्मणिप्रदिशाप्रदेशेनतिष्ठन्ति इतरत्समानम् ॥ ३६ ॥