श्रवणम्

1.164.27 समानपद
हि॒ङ्कृ॒ण्व॒ती व᳚सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छन्ती॒ मन᳚सा॒भ्यागा᳚त् ।
दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व᳚र्धतां मह॒ते सौभ᳚गाय ॥
▶ पदपाठः (Word-by-word)
हि॒ङ्॑कृ॒ण्व॒ती । व॒सु॒॑पत्नी᳚ । वसू᳚नाम् । व॒त्सम् । इ॒च्छन्ती᳚ । मन᳚सा । अ॒भि । आ । अ॒गा॒त् ।
दु॒हाम् । अ॒श्वि॑भ्या᳚म् । पयः᳚ । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ᳚गाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथाहूतागौः हिङ्कृण्वती वत्संप्रतिहिङ्कारंकुर्वती वसूनांवसुपत्नीक्षीरदध्याज्यादिबहुधनानां- स्र्वदापालयित्री वृत्त्यवृत्तिभ्यांवसुनःपालयित्रीत्वं तस्यैवाधिक्यंचप्रतिपाद्यते पुनःकीदृशी मनसा- वत्समिच्छन्ती ईदृशीसाअभ्यागात् अभ्यागमत् इयंआगता अध्यागोनामैतत् अहननीयागौः अश्वि- भ्यांताभ्यामर्थायपयःक्षीरंदुहांदुग्धां सातादृशीमहतेसौभगाय प्रवृद्धायसौभाग्याय वर्धतां प्रवृद्धा- भवतु यद्वास्मैसौभगायक्षीरंवर्धयतां अत्रापिवृष्टिपरत्वेनयथायोगंयोग्यं हिङ्कृण्वतीवर्षणाय्शब्दय- न्ती वसूनां गोसस्यादिधनानां बहूनांवसुपत्नी तेषामेवपालयित्री वत्संलोकं वत्सवत्पोषणीयंमन- साइच्छन्तीप्रीणयितुंअभ्यागात् अभिगच्छती मेघरूपासाचाघ्र्या अहन्तव्याप्रस्तुत्येत्यर्थः पयउदकं- अश्विभ्यां व्यप्ताभ्यां स्थावरजंगमाभ्यांअर्थाय यद्वा अश्विनौवाय्वादित्यौताभ्यांसकाशात् दुहांदुग्धां तौहि वृष्टेर्मोचयितारौ शिष्टमबिभिगय ॥ २७ ॥ प्रवर्ग्येअभिष्टवेदोहनसमयेवत्सेमातुः सकाशादपनीयमानेगौरमीमेदित्येषा सूत्रितंच—गौरमीमे- दनुवत्संमिषन्तंनमसेदुपसीदतेति ।