श्रवणम्

1.164.19
ये अ॒र्वाञ्च॒स्ता{4} उ॒ परा᳚च आहु॒र्ये परा᳚ञ्च॒स्ता{4} उ᳚ अ॒र्वाच᳚ आहुः ।
इन्द्र᳚श्च॒ या च॒क्रथु᳚ः सोम॒ तानि᳚ धु॒रा न यु॒क्ता रज᳚सो वहन्ति ॥
▶ पदपाठः (Word-by-word)
ये । अ॒र्वाञ्चः᳚ । तान् । ऊं॒ इति᳚ । परा᳚चः । आ॒हुः॒ । ये । परा᳚ञ्चः । तान् । ऊं॒ इति᳚ । अ॒र्वाचः᳚ । आ॒हुः॒ ।
इन्द्रः᳚ । च॒ । या । च॒क्रथुः᳚ । सो॒म॒ । तानि᳚ । धु॒रा । न । यु॒क्ताः । रज᳚सः । व॒ह॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येसूर्यसोमयोश्चक्रे वर्तमानारश्मयोग्रहादयश्च तत्परिभ्रमणवशेनअर्वाञ्चः अर्वागंचनाः अधोमुखाः सन्ति ताँउ तानेवपरचआहुः पुराङ्मुखांचनानूर्ध्वानाहुःकालविदः तथा प्रथमं येपराञ्चः परागञ्चनाः ताँउ तानेवअर्वाचआहुः हेसोम त्वंइन्द्रः परमेश्वरः इरांभूमिंवृष्ट्याधारकआदित्यः यद्वा द्वादशादि- त्यानांमध्येइन्द्रोप्येकः विवस्वदिन्द्रयुताइत्युक्तत्वादयमपीन्द्रः सच यु वां या यानिमण्डलपरिभ्रम- णानिचक्रथुः क्रुतवन्तौ तानिरजसोरंजनात्मकस्यलोकस्य कर्मणिषष्ठी लोकंवहन्ति निर्वहन्ति तत्र- दृष्टान्तः—धुरान शकटादौधुरियुक्ताः संबद्धाअश्वादयोयथाधुरंवहन्तितद्वत् यद्वा एतत्पूर्वार्धेदृष्टा- न्तितं धुरायुक्ताः धुरिस्थितंचक्रमपिधुरशब्देनोच्यते तत्रयुक्ताः समर्पिताः पुरुषाः तत्परिभ्रमणव- शेनार्वाञ्चः पराञ्चोभवन्ति पराञ्चोप्यर्वाञ्चोभवन्तितद्वत् ॥ १९ ॥