उ॒त्ता॒नयो᳚श्च॒म्वो॒३॒᳚र्योनि᳚र॒न्तरत्रा᳚ पि॒ता दु᳚हि॒तुर्गर्भ॒माधा᳚त् ॥
पदपाठः (Word-by-word)
उ॒त्ता॒नयोः᳚ । च॒म्वोः᳚ । योनिः᳚ । अ॒न्तः । अत्र᳚ । पि॒ता । दु॒हि॒तुः । गर्भ᳚म् । आ । अ॒धा॒त् ॥
सायणभाष्यम् (Sayana Commentary)
दीर्घतमाब्रवीति मेममद्यौर्द्युलोकः पितपालकः नकेवलंपालकत्वमात्रं अपितुजनिताजनयिता उत्पादयित तत्रोपपत्तिमाह—नाभिरत्रनाभिभूतोभौमोरसोऽत्रतिष्ठतीतिशेषः ततश्चान्नंजायते अन्नाद्रेतः रेतसोमनुष्यइत्येवंपारंपर्येणजननसंबन्धिनोहेतोरसस्यात्रसद्भावात् अनेनैवाभिप्रायेणज- नितेत्युच्यते अतएवबन्धुः बन्धिका तथेयं मही महतीपृथिवीमेमाता मातृस्थानीयास्वोद्भूतौषध्या- दिनिर्मात्रीत्यर्थः किञ्च उत्तानयोः ऊर्ध्वतानयोः चम्वोः सर्वस्यअत्र्योर्भोगसाधनयोर्द्यावापृथिव्योर- न्तर्मध्ये योनिः सर्वभूतनिर्माणाश्रयमन्तरिक्षंवर्ततइतिशेषः अत्रास्मिन्नन्तरिक्षेपिता द्युलोकः अधि- ष्ठात्रधिष्ठानयोरभेदेनादित्योद्यौरुच्यते सस्वरश्मिभिः अथवाइन्द्रः पर्जन्योवादुहितुः दूरेनिहितायाः भूम्याः गर्भंसर्वोत्पादनसमर्थंवृष्ट्युदकलक्षणंआधात् सर्वतः करोति ॥ ३३ ॥ आश्वमेधिकेमध्यमेहनिब्रह्मोद्येहोत्रादयः प्रुच्छामित्वेत्यनयायजमानंपृच्छेयुः तथाचसूत्रितम्— एकैकशोयजमानंपृच्छन्ति पृच्छामित्वापरमन्तंपृथिव्याइति ।