गा॒य॒त्रस्य᳚ स॒मिध᳚स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि᳚रिचे महि॒त्वा ॥
पदपाठः (Word-by-word)
गा॒य॒त्रस्य᳚ । स॒म्॑इधः᳚ । ति॒स्रः । आ॒हुः॒ । ततः᳚ । म॒ह्ना । प्र । रि॒रि॒चे॒ । म॒हि॒॑त्वा ॥
सायणभाष्यम् (Sayana Commentary)
जगतीछन्दस्कायामृच्युत्पन्नंसाम जगत् तेन ब्रह्मासृष्टिकाले सिन्धुंस्यन्दनशीलं उदकस्य स्यंदकं- वादित्यं दिवि द्युलोकेअस्तभायत् स्तंभितवान् जागतोवा एषयएषतपतीतिश्रुतेः । रथन्तरे एतन्ना- मके साम्नि स्तंभितं सूर्यं पर्यपश्यत् परिदृष्टवान्प्रजापतिः तदाधारभूतायामृचि स्वर्दृशमितिसूर्यप्रति- पादकशब्ददर्शनात् असौवावस्वर्दृगितिहिश्रुतिः । अतएवतत्रसूर्यदर्शनं विधीयते रथन्तरे प्रस्तूयमाने संमीलयेत् स्वर्दृशं प्रतिवीक्षेतेति साम ब्राह्मणेन गायत्रस्य गायत्र्यामुत्पन्नस्यसाम्नः समिधः समिन्ध- नास्तिस्रोविभक्तीराहुः पादत्रयमाहुरित्यर्थः अथवा तिस्रऋचआहुः ततोहेतोः मह्ना बलेन महित्वा- महत्त्वेनप्ररिरिचे प्ररिच्यते अन्यानिसामानि पृथक्पृथङिगर्मितवान् यद्वा गायत्रशब्दः छन्दोवाची त्स्यतिस्रोमूर्तीराहुः क्रमेणाष्टाक्षरैकादशाक्षरद्वादशाक्षरैर्गायत्रीत्रिष्टुब्जगत्यात्मिकाः यस्मादेवंततस्त- स्माद्गायत्रीछन्दसांकनिष्ठासती मह्ना बलेन महत्त्वेन प्ररिरिचे सर्वाणिच्छन्दांस्यतिक्रामति येनै- वबलेनसोममाहृतवती तादृशेनैवंभवति ॥ २५ ॥ प्रवर्ग्येघर्मदुघाह्वानकाले उपह्वयइत्यादिकेद्वेऋचौ उपह्वयेसुदुघांधेनुमेतामितिद्वेइति सूत्रि- तत्वात् ।