द्वाद᳚शारं न॒हि तज्जरा᳚य॒ वर्व᳚र्ति च॒क्रं परि॒ द्यामृ॒तस्य᳚ ।
आ पु॒त्रा अ᳚ग्ने मिथु॒नासो॒ अत्र᳚ स॒प्त श॒तानि᳚ विंश॒तिश्च᳚ तस्थुः ॥
आ पु॒त्रा अ᳚ग्ने मिथु॒नासो॒ अत्र᳚ स॒प्त श॒तानि᳚ विंश॒तिश्च᳚ तस्थुः ॥
पदपाठः (Word-by-word)
द्वाद᳚श॑अरम् । न॒हि । तत् । जरा᳚य । वर्व᳚र्ति । च॒क्रम् । परि᳚ । द्याम् । ऋ॒तस्य᳚ ।
आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः᳚ । अत्र᳚ । स॒प्त । श॒तानि᳚ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥
आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः᳚ । अत्र᳚ । स॒प्त । श॒तानि᳚ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
ऋतस्योदकस्य सत्यात्मकस्यवा आदित्यस्यचक्रं पुनः पुनः क्रमणशीलं मण्डलाख्यं रथचक्रंवा व- र्वर्ति पुनःपुनर्वर्तते संचरति कुत्र द्यांपरि द्युलोकस्यांतरिक्षस्यपरितः कीदृशंतत् द्वादशारं द्वादशसं- ख्याकमासात्मकैर्मेषादिराश्यात्मकैर्वा अरैः रथाङ्गावयवैर्युक्तं तच्चक्रं नहिजराय नैवखलुजरायैभव- ति हेअग्ने सर्वदागमनयुक्तादित्य यद्वा अग्नेरेवस्थानत्रये तत्तदात्मनावर्तमानत्वादसावप्यग्निरित्युच्यते अत्रास्मिन्त्वदीयेचक्रे मिथुनासः स्त्रीपुंसरूपेण परस्परंमिथुनीभूताः सप्तशतानिविंशतिश्च विशत्युत्त- रसप्तशतसंख्याकाःपुत्राः पुत्रवदुत्पद्यमानाः प्राणिनांदुः—खान्त्रारोवाअहोरात्ररूपास्तस्थुः तिष्ठन्ति- निष्पद्यन्ते षष्ट्यधिकशतत्रयसंख्याकान्यहानि तावत्यएवरात्रयइत्येवंतद्विभागः । सप्तचवैशतानिविं- शतिश्चसंवत्सरस्याहोरात्राः सएषोहःसमानइत्यारण्यकम् ॥ ११ ॥