श्रवणम्

1.164.13
पञ्चा᳚रे च॒क्रे प᳚रि॒वर्त᳚माने॒ तस्मि॒न्ना त᳚स्थु॒र्भुव᳚नानि॒ विश्वा᳚ ।
तस्य॒ नाक्ष᳚स्तप्यते॒ भूरि᳚भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ॥
▶ पदपाठः (Word-by-word)
पञ्च᳚॑अरे । च॒क्रे । प॒रि॒॑वर्त᳚माने । तस्मि᳚न् । आ । त॒स्थुः॒ । भुव᳚नानि । विश्वा᳚ ।
तस्य᳚ । न । अक्षः᳚ । त॒प्य॒ते॒ । भूरि᳚॑भारः । स॒नात् । ए॒व । न । शी॒र्य॒ते॒ । स॑ना᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चारेपञ्चर्तुरूपैररैः युक्तेचक्रे संवत्सरात्मकेपरिवर्तमाने संवत्सरपरिवत्सरादिरूपेणपुनः पुनरावर्तमानेसति तस्मिन्कालचक्रे विश्वाभुवनानि सर्वाणिभूतजातानि आतस्थुः तिष्ठन्ति वर्तन्तइ- त्यर्थः किञ्च तस्यचक्रस्यमध्येवर्तमानः अक्षोभूरिभारः सकलभुवनवहनेन प्रभूतभारोऽपिनतप्यते न- पीड्यते किञ्च सनादेव सनातनएवसनाभिः समाननाभिक्रः सर्वदैकरूपनाभिरसौनशीर्यते नभिद्यते यथालौकिकरथाक्षः भारेणभग्नोभवति अक्षघातेनचनाभिर्विवृताभवति तद्वदत्रनास्तीत्यर्थः ॥ १३ ॥