श्रवणम्

1.164.12
पञ्च᳚पादं पि॒तरं॒ द्वाद᳚शाकृतिं दि॒व आ᳚हु॒ः परे॒ अर्धे᳚ पुरी॒षिण᳚म् ।
अथे॒मे अ॒न्य उप᳚रे विचक्ष॒णं स॒प्तच᳚क्रे॒ षळ᳚र आहु॒रर्पि᳚तम् ॥
▶ पदपाठः (Word-by-word)
पञ्च᳚॑पादम् । पि॒तर᳚म् । द्वाद᳚श॑आकृतिम् । दि॒वः । आ॒हुः॒ । परे᳚ । अर्धे᳚ । पु॒री॒षिण᳚म् ।
अथ᳚ । इ॒मे । अ॒न्ये । उप᳚रे । वि॒॑च॒क्ष॒णम् । स॒प्त॑च᳚क्रे । षट्॑अ᳚रे । आ॒हुः॒ । अर्पि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चपादं पञ्चसंख्याकऋत्वात्मकपादोपेतं एतत् हेमन्तशिशिरयोरेकत्वाभिप्रायं पितरं सर्वस्यप्री- णयितारं द्वादशाकृतिं द्वादशमासाएवाकृतयोयस्यतादृशंपुरीषिणं वृष्ट्युदकेन तद्वन्तं प्रीणयितारंवा पुरीषमित्युदकनाम उक्तलक्षणं संवत्सरचक्रं दिवोद्युलोकस्यपरेअर्धे तात्स्थ्यात्ताच्छब्द्यं परस्मिन्नर्धे- न्तरिक्षलक्षणेवस्थितआदित्यइत्यर्थः तस्मिन्नर्पितमाहुः एतदुत्तरस्थितमत्राप्यनुषज्ज्यते यद्यत्रार्पितं तत्तदधीनं अतः संवत्सरं परायत्त्माहुरित्यर्थः अथअपिच इमे अन्येकेचनवेदवादिनएवमाहुः किमिति उपरे उपरमन्तेऽस्मिन्नुपरताः प्राणिनोऽत्रेतिवोपरःसंवत्सरः तस्मिन् कीदृशेसप्तचक्रे सप्तादित्यरश्म- यस्तद्द्वारेणचक्रस्थनीयायस्य सतथोक्तः यद्वा अयनर्तुमासपक्षाहोरात्रिमुहूर्तानिसप्त सप्तचक्राणि पुनः पुनःक्रममाणानियस्य तादृशे षळरे षळृतवएवअराः नाभौप्रत्यृताः संबद्धायस्य तथोक्तलक्षणे संव- त्सरे रथे विचक्षणं विविधदर्शनकरमादित्यं अर्पितमाहुः एतदुक्तं भवति—अमुमादित्यं दक्षिणोत्तर- रूपभिन्नगतेस्तीव्रमन्दादिभावस्यच कालाधीनत्वात्तदधीनमाहुः अन्येतुसंवत्सराद्यात्मकस्यकालस्य सूयगमनागमनसाध्यत्वात्तदायत्तत्वमाहुरिति ॥ १२ ॥