तस्या᳚ः समु॒द्रा अधि॒ वि क्ष᳚रन्ति॒ तेन᳚ जीवन्ति प्र॒दिश॒श्चत᳚स्रः ।
ततः᳚ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप᳚ जीवति ॥
ततः᳚ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप᳚ जीवति ॥
पदपाठः (Word-by-word)
तस्याः᳚ । स॒मु॒द्राः । अधि᳚ । वि । क्ष॒र॒न्ति॒ । तेन᳚ । जी॒व॒न्ति॒ । प्र॒॑दिशः᳚ । चत᳚स्रः ।
ततः᳚ । क्ष॒र॒ति॒ । अ॒क्षर᳚म् । तत् । विश्व᳚म् । उप᳚ । जी॒व॒ति॒ ॥
ततः᳚ । क्ष॒र॒ति॒ । अ॒क्षर᳚म् । तत् । विश्व᳚म् । उप᳚ । जी॒व॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
तस्याः उक्तायाःगोःसकाशात्समुद्राः वृष्ट्युदकसमुन्दनाधिकरणभूतामेघाअधिअधिकं प्रभूतमुद- कंविक्षरन्ति विविधंक्षरन्ति तेनोदकेनप्रदिशश्चतस्रः प्रशब्दोवीत्यर्थे विदिशश्चतस्रोदिशश्च अथवा प्रकृष्टादिशोमुख्याश्चतस्रः तत्स्थेषुताच्छब्द्यं तत्सथाः पुरुषाजीवन्ति ततः पश्चात्तदक्षरमुदकंक्षरति सस्यादिकमुत्पादयतीत्यर्थः तत्सस्यादिकंविश्वंजगदुपजीवति । अयमपियास्केन व्याख्यातः—तस्याः समुद्राअधिविक्षरन्तिवर्षन्तिमेघास्तेनजीवन्तिदिगाश्रयाणिभूतानिततः क्षरत्यक्षरमुदकंतत्सर्वाणि भूतान्युपजीव्न्तीति ॥ ४२ ॥