सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त्क्व᳚ स्वित्सूते न॒हि यू॒थे अ॒न्तः ॥
पदपाठः (Word-by-word)
सा । क॒द्रीची᳚ । कम् । स्वि॒त् । अर्ध᳚म् । परा᳚ । अ॒गा॒त् । क्व᳚ । स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒न्तरिति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अत्राग्नौहूयमानाहुतिर्गोरूपेणस्तूयते गौःगोरूपागमनशीलैषाआहुतिः आहुतिसंघेनपोष्यं वत्सं व- त्सस्थानीयमग्निं अवःअवस्तात् अधोदेशेपरेणपदापादद्वयेनस्वावयवेनाकृष्यबिभ्रतीधारयन्ती तथा परः परस्तात् उपरिदेशे एना अनेनावरेणचपदापादद्वयेनाकृष्य तमेववत्संबिभ्रतीउदस्थात्सूर्यंप्रत्यु- त्तिष्ठति अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठतइतिस्मृतेः । अथैवंक्रुतवतीसाआहुतिः कद्रीचोक्वगते- त्यनिश्चयगमना आदित्यंप्राप्तवतीत्यर्थः कंस्वित् कंफलभाजंपुरुषंप्रतिअर्धमर्धमार्गमागत्य यद्वा अर्धं ऋद्धंपरागात् परागच्छतिआगत्यचक्वस्वित्सूते कुत्रप्रदेशेफलमुत्पादयति नहीतरगोवदियं यूथेअन्तः सजातीयगोमध्ये सूतेसाधारण्येन यत्रद्वस्विन्नसूतेअपितुकस्मिंश्चिदनुष्ठातरि अतः समहान्कोनुखल्वि- ति यद्वा आदित्यरश्मिसमूहएवगोरूपेण स्तूयते गौः उक्तलक्षणारश्मिरूपागौर्वत्संवत्सवद्रक्षणीयंय- जमानंउक्तक्रमेणबिभ्रतीउदस्थात् अथतथाकृत्वा साकद्रीची अदृश्यगमनासती कंस्विदर्धंऋद्धं अर्ध- स्थानभाजंवा कंस्वित्पुरुषमादित्यंपरागात् अप्रतिनिवृत्तागती तन्नयन्त्येताःसूर्यस्यश्मयोयत्रदेवानां- पतिरेकोधिवासइतिश्रुतेः । तथाकृत्वाच क्वस्वित्सूते कस्मिन्निन्द्रादिलोकेजनयति नसर्वत्र शिष्टंसमा- नम् ॥ १७ ॥