श्रवणम्

1.164.50
य॒ज्ञेन᳚ य॒ज्ञम᳚यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ।
ते ह॒ नाकं᳚ महि॒मानः᳚ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति᳚ दे॒वाः ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि᳚ । धर्मा᳚णि । प्र॒थ॒मानि᳚ । आ॒स॒न् ।
ते । ह॒ । नाक᳚म् । म॒हि॒मानः᳚ । स॒च॒न्त॒ । यत्र᳚ । पूर्वे᳚ । सा॒ध्याः । सन्ति᳚ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाव्यवहर्तारोयजमानायज्ञेननिर्मथ्याग्निनायज्ञंहोमसाधनमाहवनीयं अयजन्त पूजितवन्तः अ- नुष्थानायसंयोजितवन्तइत्यर्थः अग्निंमथित्वाप्रहरति तेनैवाग्नयआतिथ्यंक्रियतइतिहितैत्तिरीयकम् । तानिधर्माणिअग्निसाधनानिकर्माणिप्रथमानि प्रथमइतिमुख्यनाम प्रतमानिप्रकृष्टतमान्यासन् फलप्र- सवसमर्थान्यभवन्नित्यर्थः तेह तेचयजमानाः नाकं नास्मिन्नकमस्तीतिनाकः स्वर्गः तंमहिमानःमाहा- त्म्ययुक्ताः सचन्तसंगताः कीदृशंनाकं कीदृशंनाकं यत्रयस्मिन्नाके पूर्वेपूर्वतनाः साध्याःसाधनाः यज्ञा- दिसाधनवन्तः कर्मदेवाइत्यर्थः तेसन्तिनिवसन्ति तं सचन्त तस्मादिदानीमपिमनुषैरेवंकर्तव्यमित्यर्थः यद्वा देवाइदानींदेवभावमापन्नाः पूर्वंयज्ञेनअग्निनापशुभूतेन यज्ञंयष्टव्यमग्निंअयजन्तपूजितवन्तः अग्ने- रेवमूर्तिभेदेनदेवत्वंचपशुत्वंचद्रष्टव्यं अग्निःपशुरासीत्तमालभन्ततेनायजन्तेतिश्रुतेः । शिष्टंपूर्ववत् । यत्रयस्मिन्स्वर्गेनिमित्तभूतेसतिपूर्वेपूर्वतनाः साध्याःदेवाः साधनाः छन्दोभिमानिनः आदित्याअंगि- रसश्चसाध्यादेवाउच्यन्ते छन्दांसिवैसाध्यादेवास्तेग्रेग्निमयजन्ततेस्वर्गंलोकमायन्नादित्याश्चैवेहासन्नं- गिरसश्चतेग्रेग्निनाग्निमयजन्ततेस्वर्गंलोकमायन्निति ब्राह्मणम् । एतेदेवाः स्वर्गेसन्तिभवन्ति स्वर्गं- प्राप्ताइत्यर्थः यद्वा येयज्ञेन ज्ञानादियज्ञेन यज्ञं विष्णुंअयजन्त पूजयंति तेनाकंविष्णुलोकंमहानुभावाः सचन्तसंगच्छन्ते यत्रपूर्वेसाध्यादयोदेवाः सन्तितत्स्थानं अग्निनाग्निमयजन्तदेवाइत्यादिनिरुक्तमनु- सन्धेयम् ॥ ५० ॥