श्रवणम्

1.164.8
मा॒ता पि॒तर᳚मृ॒त आ ब᳚भाज धी॒त्यग्रे॒ मन᳚सा॒ सं हि ज॒ग्मे ।
सा बी᳚भ॒त्सुर्गर्भ᳚रसा॒ निवि᳚द्धा॒ नम᳚स्वन्त॒ इदु᳚पवा॒कमी᳚युः ॥
▶ पदपाठः (Word-by-word)
मा॒ता । पि॒तर᳚म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे᳚ । मन᳚सा । सम् । हि । ज॒ग्मे ।
सा । बी॒भ॒त्सुः । गर्भ᳚॑रसा । नि॑वि᳚द्धा । नम᳚स्वन्तः । इत् । उ॒प॒॑वा॒कम् । ई॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातासर्वस्यनिर्मात्रीप्रुथिवी पितरंपालकंद्युलोकंतस्थंद्युलोकस्थमादित्यमित्यर्थः तमावभाजआ- भजते किमर्थंऋते उदकेयज्ञेवानिमित्तभूतेसति केनद्वारेण धीती धीत्यकर्मणायागादिरूपेणस्वकीये- नाज्यसोमादिहविषातर्पयतीत्यर्थः अग्रे ततःपूर्वं पिताचमनसाअस्यामभीप्रायवता चेतसासंजग्मेहि संश्लिष्टोवर्ततेखलु वृष्टिमकरोदित्यर्थः अनन्तरंसामाताबीभत्सुः गर्भबन्धनेच्छावती गर्भरसा गर्भरसे- नगर्भोत्पत्तिनिमित्तेनरसेननिविद्धानितरांविद्धासीत् यद्वा गर्भेरसः ओषध्याद्युत्पादनसमर्थंउदकंय- स्याः सा तादृशी उदकेनात्यन्तंक्लिन्ना निविद्धाकृषीवलैर्हलमुखेननितरांविदरिताभवति बीजावा- पार्थं अत्रायंसमाधिर्याकाचनयोषिदपत्यार्थंस्वपतिंयुवानंयौति सचतस्यामनुरागयुक्तःसंगतोभवति साचान्तर्वत्नीसतीपुत्रान् जनयतीति तद्वदत्रापि अनन्तरंनमस्वन्तइत् भाविघ्रीहिप्रियंग्वाद्यन्नवन्त- एव उपवाकंउपेत्यवचनं परस्परंसम्यगभिधृद्धानि सस्यानीतिवचनमीयुः प्राप्नुवन्ति यद्वा हविर्ल- क्षणान्नवन्तउपेत्यवचनं प्रैषादिरूपधीयुः वृष्ठौसत्यांसस्यादिद्वारायागमयुतिष्ठेयुरित्यर्थः ॥ ८ ॥