आ वो᳚ रुव॒ण्युमौ᳚शि॒जो हु॒वध्यै॒ घोषे᳚व॒ शंस॒मर्जु᳚नस्य॒ नंशे᳚ ।
प्र वः᳚ पू॒ष्णे दा॒वन॒ आ{4} अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ॥
प्र वः᳚ पू॒ष्णे दा॒वन॒ आ{4} अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ॥
पदपाठः (Word-by-word)
आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै᳚ । घोषा᳚॑इव । शंस᳚म् । अर्जु᳚नस्य । नंशे᳚ ।
प्र । वः॒ । पू॒ष्णे । दा॒वने᳚ । आ । अच्छ᳚ । वो॒चे॒य॒ । व॒सु॑ता᳚तिम् । अ॒ग्नेः ॥
प्र । वः॒ । पू॒ष्णे । दा॒वने᳚ । आ । अच्छ᳚ । वो॒चे॒य॒ । व॒सु॑ता᳚तिम् । अ॒ग्नेः ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः औशिजःकक्षीवानहंवोयुष्माकंसंबन्धिनंरुवण्युं रवणीयंशब्दनीयं शंसंस्तोत्रंआहुवध्यै युष्म- दाह्वानाय अच्छावाचेय आभिमुख्येनब्रवीमि यद्वा अत्राप्यश्विनावेवोच्येते तस्मिन्पक्षेबहुवचनंपूजा- र्थंहेअश्विनौ वोयुष्मान्घोषेव एतन्नामिकाब्रह्मवादिनीव सायथा अर्जुनस्यश्वेतवर्णस्य स्वशरीरगत- त्वग्रोगस्यनंशेनाशनाय यथाश्विनोःशंसमकार्षीत् तद्वदहमपीत्यर्थः हेदेवाः युष्मत्संबन्धिने दावते आ आभीमुख्येनफलस्यदात्रेपूष्णे पोषकाय एतन्नामकाय देवायापि आकारस्याङोनुनासिकश्छन्दसीति- प्रकृतिभावः अच्छ आभिमुख्यगमनेनवोचेयस्तौमि वचपरिभाषणे लिङ्याशिष्यङ् वचउमित्युम् कि- ञ्च अग्नेर्वसुतातिं तत्संबन्धिधनमपिवोचेय स्तौमि तमेवाग्निम् ॥ ५ ॥