अध॒ ग्मन्ता॒ नहु᳚षो॒ हवं᳚ सू॒रेः श्रोता᳚ राजानो अ॒मृत᳚स्य मन्द्राः ।
न॒भो॒जुवो॒ यन्नि᳚र॒वस्य॒ राध॒ः प्रश᳚स्तये महि॒ना रथ᳚वते ॥
न॒भो॒जुवो॒ यन्नि᳚र॒वस्य॒ राध॒ः प्रश᳚स्तये महि॒ना रथ᳚वते ॥
पदपाठः (Word-by-word)
अध᳚ । ग्मन्त᳚ । नहु᳚षः । हव᳚म् । सू॒रेः । श्रोत᳚ । रा॒जा॒नः॒ । अ॒मृत᳚स्य । म॒न्द्राः॒ ।
न॒भः॒॑जुवः᳚ । यत् । नि॒र॒वस्य᳚ । राधः᳚ । प्र॑श᳚स्तये । म॒हि॒ना । रथ᳚॑वते ॥
न॒भः॒॑जुवः᳚ । यत् । नि॒र॒वस्य᳚ । राधः᳚ । प्र॑श᳚स्तये । म॒हि॒ना । रथ᳚॑वते ॥
सायणभाष्यम् (Sayana Commentary)
हेराजानोराजमानाः सर्वस्येश्वरावा हेमन्द्राः मादयितारोविश्वेदेवाः यूयंअमृतस्यअमरणस्यसूरः स्तोत्रादिप्रेरकस्यनहुषोमनुष्यस्यममहवमाह्वानंश्रोतश्रृणुत बहुलंछन्दसीतिशपोलुक् अमृतस्येत्यत्र- बहुव्रीहौ नञोजरमरमित्रमृताइत्युत्तरपदाद्युदात्तत्वं अध अथश्रवणानन्तरं ग्मन्त आगच्छत गमेश्छा- न्दसोलट् मध्यमबहुवचनस्यव्यत्ययेनतः बहुलंछन्दसीतिशपोलुक् गमहनेत्युपधालोपःकिमर्थमागमनं उच्यते—नभोजुवोनभसिव्याप्तायूयंयद्यस्मान्निरवस्यनिर्गंतरक्षकस्ययुष्मद्भ्यतिरेकेणरक्षकान्तररहि- तस्य अथवानिर्गतोमुखादुच्चरितोरवःशब्दःस्तोत्ररूपोयस्यतादृशस्यरथवतेरथवतोयजमानस्यषष्ठ्य- र्थेचतुर्थी महिना महिम्नामाहात्म्येन मकारलोपश्छान्दस तेनयुक्तंराधः समृद्धिसाधनंहविर्लक्षणंधनं संराधकंस्तोत्रंवाप्रशस्तयेप्रशंसितुंकामयध्वे तस्मादाह्वानंश्रृणुत आगच्छतचेति ॥ ११ ॥