विसृ᳚ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा᳚सु पृ॒त्सु सद॒मिच्छूरः᳚ ॥
पदपाठः (Word-by-word)
विसृ᳚ष्ट॑रातिः । या॒ति॒ । बा॒ळ्ह॒॑सृत्वा᳚ । विश्वा᳚सु । पृ॒त्॑सु । सद᳚म् । इत् । शूरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ युवांगतमन्त्रावसानोक्तलक्षणोयुष्मत्पूजकोजनोदंसुजूतः दान्तैरश्वैः सुष्ठुप्रेरितः अतएवनरांनराणांशार्धस्तरः अतिशयेनाभिभविता अथवाअतिशयेनबलवान् नराणांस्वसमाना- नांमध्येगूर्तश्रवाः उद्गूर्णदीप्तिः प्रख्यातान्नोवाविसृष्टरातिः अर्थिभ्यः प्रदत्तधनः एवंमहानुभावः शूरः सन् विश्वासुपृत्सुसर्वेषुजन्येषुसंग्रामेषुव्राधतः महन्नामैतत् हिंसकान् महतोऽपिमनुषोम् मनुष्यना- मैतत् मनुष्यान् शत्रून्प्रतिबाह्ळसृत्वाभृशंसर्ता अशंकितगमनःसन् सदमित् सदैवयातिगच्छति ॥ दंसुजूतःदासेर्विच् तृतीयाकर्मणीतिपूर्वपदप्रकृतिस्वरत्वम् । गूर्तश्रवाः गुरीउद्यममेनसत्तनिषत्तेत्यादौ- निपातनान्निष्ठानत्वाभावः । विसृष्टरातिः विपूर्वात्सूजतेः कर्मणिनिष्ठा गतिरनन्तरइतिगतेःप्रकृति- स्वरत्वंबहुव्रीहौपूर्वपद्प्रकृतिस्वरत्वेनसएवशिष्यते । पृत्सु पदादिषुमांस्पृत्स्नूनमुपसंख्यानमिति- पृतनाशब्दस्यपृदादेशः सावेकाचइतिविभक्तेरुदात्तत्वम् । बाह्ळसृत्वा सर्तेरन्येभ्योऽपिदृश्यन्तइति- क्वनिप् ॥ १० ॥