श्रवणम्

1.122.9
जनो॒ यो मि᳚त्रावरुणावभि॒ध्रुग॒पो न वां᳚ सु॒नोत्य᳚क्ष्णया॒ध्रुक् ।
स्व॒यं स यक्ष्मं॒ हृद᳚ये॒ नि ध᳚त्त॒ आप॒ यदीं॒ होत्रा᳚भिरृ॒तावा᳚ ॥
▶ पदपाठः (Word-by-word)
जनः᳚ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒॑ध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति᳚ । अ॒क्ष्ण॒या॒॑ध्रुक् ।
स्व॒यम् । सः । यक्ष्म᳚म् । हृद᳚ये । नि । ध॒त्त॒ । आप᳚ । यत् । ई॒म् । होत्रा᳚भिः । ऋ॒त॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युष्माकंयोजनोअभिध्रुक् अभितोद्रोग्धाभवति अयष्टाभवतीत्यर्थः यश्चअक्ष्णयाध्रुक् चक्रेणमार्गेणद्रुह्यति अन्यथाप्रकारेणद्रुह्यति द्रोहप्रकारउच्यते वांयुवांअपः सोमरसान्नसुनोति अभिष- वंनकरोति युवामतिक्रम्यअन्यदेवतार्थंसुनोतीत्यभिप्रायः अयमेवअक्ष्णयाद्रोहः समूढोविधोजनः स्वयंयक्ष्मंव्याधिंहृदयेस्वचित्तेनिधत्तेस्थापयति अनुष्ठातॄणांभोगान्पश्यन्व्यथितोभवतीत्यर्थः यत् लिङ्गव्यत्ययः यउक्तविलक्षणःपुमान् ऋतावा यज्ञवान् परिगृहीतयज्ञः होत्राभिःवाङ्गामैतत् स्तुतिवाग्भिः ईमेनंसोमरसंआपव्याप्नोति स्तुवन्सोममभिषुणोतीति यावत्सनरः पृत्सुयातीतिवक्ष्य- माणेनसहसंबन्धः ॥ अभिध्रुक् द्रुहेः सत्सूद्विषेतिक्विप् संहितायांभष् भावश्छान्दसः । ऋतावेत्यत्र- छन्दसीवनिपावितिमत्वर्थीयोवनिप् अन्येषामपिदृश्यतइतिसंहितायांदीर्घत्वम् ॥ ९ ॥