श्रवणम्

1.122.6
श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मोत श्रु᳚तं॒ सद᳚ने वि॒श्वतः᳚ सीम् ।
श्रोतु᳚ न॒ः श्रोतु᳚रातिः सु॒श्रोतु᳚ः सु॒क्षेत्रा॒ सिन्धु᳚र॒द्भिः ॥
▶ पदपाठः (Word-by-word)
श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा᳚ । इ॒मा । उ॒त । श्रु॒त॒म् । सद᳚ने । वि॒श्वतः᳚ । सी॒म् ।
श्रोतु᳚ । नः॒ । श्रोतु᳚॑रातिः । सु॒॑श्रोतुः᳚ । सु॒॑क्षेत्रा᳚ । सिन्धुः᳚ । अ॒त्॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा एतन्नामानावहोरात्राभिमानिदेवौ युवांइमाइमानि हवा अस्मदाह्वानानि श्रुतंशृ- णुतं नकेवलंअस्मदाह्वानं उतअपिचसदने यागगृहेविश्वतःउद्गात्रादिभिःसर्वतःक्रियमाणंसींएतत्स्तो- त्रमपिश्रुतं किंच श्रोतुरातिः सर्वत्रश्रूयमाणधनः तादृशदानोवासुश्रोतुरस्मदाह्वानस्य सम्यक् श्रोता- सिन्धुर्जलाभिमानीदेवः सुक्षेत्रा सुक्षेत्राणिअद्भिर्वृष्टिजलैः क्लेदयन्नितिशेषःयद्वा अस्मत्क्षेत्राण्यद्भिः सुक्षेत्राणिसस्यादिसम्रुद्धानिकुर्वन् नोहवंश्रोतुश्रृणोतु सुक्षेत्रत्वलाभायश्रृणोत्वित्यर्थः ॥ हवा इमा उभ- यत्राविभक्त्याआकारः । श्रुतमित्यत्रबहुलंछ्न्दसीतिविकरणस्य लुक् ॥ ६ ॥