श्रु॒तर᳚थे प्रि॒यर᳚थे॒ दधा᳚नाः स॒द्यः पु॒ष्टिं नि᳚रुन्धा॒नासो᳚ अग्मन् ॥
पदपाठः (Word-by-word)
श्रु॒त॑र᳚थे । प्रि॒य॑र᳚थे । दधा᳚नाः । स॒द्यः । पु॒ष्टिम् । नि॒॑रु॒न्धा॒नासः᳚ । अ॒ग्म॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्र हेवरुणदेव वांयुवामहंस्तुषेस्तुवे व्यत्ययेनमध्यमःयुवयोः संबन्धिनीसाप्रसिद्धारातिदांनंश- ताशतानां शतसंख्यानामपरिमितानां गवांसंबन्धिनीअसंख्यातगोविषयारातिः पज्रेकक्षीवतिमयि पृक्षयामेषु पृक्षइत्यकारान्तोऽप्यस्ति पृक्षाणामन्नानांनियमनंयेषुस्तोत्रेषुयज्ञेषुवातेषुनिमित्तभूतेषु भवत्वितिशेषः किंच मित्रादयोदेवाः श्रुतरथे सर्वत्रप्रसिद्धरथोपेतेप्रियरथेप्रीयमाणरथयुक्तेसर्वदा रथप्रियेपज्रेमय्येवदधानाः प्रीतिंधारयन्तः सद्यः आगमनानन्तरमेवपुष्टिंगवादिपोषंनिरुन्धानासः अवरन्धानाः अस्मास्वेवस्थापयन्तः यद्वा मयिपुष्टिंदधानाः कुर्वाणाः निरुन्धानासः कृतामेवपुष्टिं- मयिस्थिरांकुर्वन्तः अग्मन् आगच्छन्तु ॥ रातिः रादाने भावेक्तिन् मन्त्रेवृषेत्यादिनाक्तिनउदात्तत्वम् । शता सुपांसुलुगितिषष्ठ्याः पूर्वसवर्णदीर्घत्वम् । दधानाः जुहोत्यादित्वाच्छपः श्लुः अभ्यस्तानामा- दिरित्याद्युदात्तत्वम् । अग्मन् गमेश्छान्दसेलुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् गमहनेत्युपषालोपः ॥ ७ ॥