श्रवणम्

1.167.5
जोष॒द्यदी᳚मसु॒र्या᳚ स॒चध्यै॒ विषि᳚तस्तुका रोद॒सी नृ॒मणा᳚ः ।
आ सू॒र्येव᳚ विध॒तो रथं᳚ गात्त्वे॒षप्र᳚तीका॒ नभ᳚सो॒ नेत्या ॥
▶ पदपाठः (Word-by-word)
जोष᳚त् । यत् । ई॒म् । अ॒सु॒र्या᳚ । स॒चध्यै᳚ । विसि᳚त॑स्तुका । रो॒द॒सी । नृ॒॑मनाः᳚ ।
आ । सू॒र्या॑इ᳚व । वि॒ध॒तः । रथ᳚म् । गा॒त् । त्वे॒ष॑प्र᳚तीका । नभ᳚सः । न । इ॒त्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोदसीमरुत्पत्नी विद्युद्वा एतन्नामकेयमपि ईमेनंमरुत्सङ्घं जोषत् सेवते जुषेर्लेट्यडागमः किमर्थं सचध्यैसङ्गमनार्थं कीदृशीसा असुर्या असुराःक्षेप्तारोमरुतः तेषांस्वभूताविषितस्तुका विशिष्टकेशसं- घा विप्रकीर्णकेशसंघावा संभोगवशेन तथानृमणाः नृषुनेतृषुमरुत्सुमननवती मनुष्येषुवावृष्टिप्रदा- नमनोयुक्ता त्वेषप्रतीकादीप्तोपक्रमादीप्तावयवा ईदृशीदेवीविधतः परिचरतोमरुत्संघस्यरथमागात् आगच्छतिव्याप्नोति यागदेशंगन्तुंरथमारुह्यवायज्ञमागच्छति केव विधतःसूर्यस्यरथंत्वेषप्रतीकासूर्य- पत्नीव यद्वा सूर्यस्यदुहिताश्विनोरथमिव सायथारोहतितद्वत् आगमनेदृष्टान्तः—नभसइत्यान अन्त- रिक्षादित्ययोः साधरणोयंनभःशब्दः नभइतिषट्साधारणानीत्युक्तत्वादत्रादित्यवचनः तस्यगतिरिव सायथाशीघ्रातद्वत् ॥ ५ ॥