श्रवणम्

1.167.10
व॒यम॒द्येन्द्र᳚स्य॒ प्रेष्ठा᳚ व॒यं श्वो वो᳚चेमहि सम॒र्ये ।
व॒यं पु॒रा महि᳚ च नो॒ अनु॒ द्यून्तन्न᳚ ऋभु॒क्षा न॒रामनु᳚ ष्यात् ॥
▶ पदपाठः (Word-by-word)
व॒यम् । अ॒द्य । इन्द्र᳚स्य । प्रेष्ठाः᳚ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒॑म॒र्ये ।
व॒यम् । पु॒रा । महि᳚ । च॒ । नः॒ । अनु᳚ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु᳚ । स्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्दिनेवयंयष्टारइन्द्रस्यदेवस्यप्रेष्ठाः प्रियतमाः भवेम यद्वा प्रियतमवयमिन्द्रस्य महत्त्वं- वोचेमहि स्तोतुंसमर्थाभूयास्म किञ्च वयंश्वः परस्मिन्नपिदिनेसमर्थेसहमर्थामर्त्याऋत्विजोयस्मिन्स- मर्थोयज्ञः तस्मिन् सङ्ग्रामेवाइन्द्रस्यमहत्त्वंवोचेमहि किञ्च वयंपुरापूर्वस्मिन्नतीतेपिकालेमहिमहत् बलंनोस्मदर्थंवोचेमहि तथा द्यून् दिवसाननुप्रतिदिवसमित्यर्थः अतीते आगामिनिच दिवसे सर्वदा- वोचेमहि तत् तस्मादृभुक्षाः महन्नामैतत् ऋभुक्षाः उक्षाइतितन्नामसुपाठात् महानिन्द्रोनरांमनुष्या- णांमध्येनोस्माननुस्यात् अनुभवतु अनुकूलमभिमतप्रदोवाभवतु ॥ १० ॥