श्रवणम्

1.167.2
आ नो॑वो᳚भिर्म॒रुतो᳚ या॒न्त्वच्छा॒ ज्येष्ठे᳚भिर्वा बृ॒हद्दि᳚वैः सुमा॒याः ।
अध॒ यदे᳚षां नि॒युतः᳚ पर॒माः स᳚मु॒द्रस्य᳚ चिद्ध॒नय᳚न्त पा॒रे ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अवः᳚॑भिः । म॒रुतः᳚ । या॒न्तु॒ । अच्छ᳚ । ज्येष्ठे᳚भिः । वा॒ । बृ॒हत्॑दि᳚वैः । सु॒॑मा॒याः ।
अध᳚ । यत् । ए॒षा॒म् । नि॒॑युतः᳚ । प॒र॒माः । स॒मु॒द्रस्य᳚ । चि॒त् । ध॒नय᳚न्त । पा॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेमरुतः अवोभीरक्षणैः सहितानोस्मानच्छ आभिमुख्येनायान्तु आगच्छन्तु सुमायाः मायेतिप्र- ज्ञानाम शोभनप्रज्ञाः एवंमरुतोज्येष्ठेभिः बृहद्दिवैः वा ज्येष्ठैः प्रशस्यतमैर्मणिमुक्तादिधनैश्चसहिता- आयान्तु वाशब्दःसमुच्चये आगमने कथमेषांसामर्थ्यमित्यतआह—अधअथैषांमरुतांयद्यस्मान्नियुतः एतन्नामकाः परमाः उत्कृष्टाः अश्वाः समुद्रस्यचित् चिच्छब्दोप्यर्थे समुद्रस्यापिपारेपरस्मिन् तीरे धनयन्त धनधारणंबहनंकुर्वन्ति तस्माद्रक्षणैर्धेनैश्चायान्त्वित्यर्थः ॥ २ ॥