श्रवणम्

1.146.4
धीरा᳚सः प॒दं क॒वयो᳚ नयन्ति॒ नाना᳚ हृ॒दा रक्ष᳚माणा अजु॒र्यम् ।
सिषा᳚सन्त॒ः पर्य᳚पश्यन्त॒ सिन्धु᳚मा॒विरे᳚भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
धीरा᳚सः । प॒दम् । क॒वयः᳚ । न॒य॒न्ति॒ । नाना᳚ । हृ॒दा । रक्ष᳚माणाः । अ॒जु॒र्यम् ।
सिसा᳚सन्तः । परि᳚ । अ॒प॒श्य॒न्त॒ । सिन्धु᳚म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः᳚ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीरासोधीराः धीमन्तः प्रयोगज्ञाः अध्वर्य्वादयः अजुर्यं अजर्यं अजीर्णं एनमग्निं पदं स्थानंवेदिल- क्षणंनयन्तिप्रापयन्ति मथनदेशाद्गार्हपत्याद्वा अथवा वक्ष्यमाणलक्षणायजमानादयः पदंआस्पदं सर्व- कामानामास्पदमेनंगमयन्ति कीदृशाः ते कवयः क्रान्तदर्शिनोमेधाविनः अनूचानावा येवाअनूचाना- स्तेवाकवयइतिश्रुतेः । किंच नानाहृदाबहुप्रकारयाबुद्भ्या रक्षमाणाः धारयमाणाः किंचैवंरूपास्ते सिंधुंस्यंदमानं यज्ञद्वाराफलानिस्रवंतमग्निं सिषासन्तः संभुक्तुमिच्छन्तः सनितेःसनि सनीवंतर्धेतिवि- कल्पनादिडभावः जनसनखनामित्यात्वं पर्यपश्यन्त परितः पश्यन्ति शुश्रूषन्त इत्यर्थः किंच सूर्यः सर्वस्यप्रसवितायमग्निः एभ्यः एवंकुर्वद्भ्योनॄन्नृभ्यः नेतृभ्यः आविरभवत् तेषामनुग्रहेणप्रत्यक्षोभवत् नॄनित्यत्रविभक्तिव्यत्ययः नॄन्प्राणिनोऽनुग्रहीतुमिति वायोज्यम् ॥ ४ ॥