उ॒र्व्याः प॒दो नि द᳚धाति॒ सानौ᳚ रि॒हन्त्यूधो᳚ अरु॒षासो᳚ अस्य ॥
पदपाठः (Word-by-word)
उ॒र्व्याः । प॒दः । नि । द॒धा॒ति॒ । सानौ᳚ । रि॒हन्ति᳚ । ऊधः᳚ । अ॒रु॒षासः᳚ । अ॒स्य॒ ॥
सायणभाष्यम् (Sayana Commentary)
उक्षासेक्ता फलप्रदइत्यर्थः अतएवमहान् महिम्ना स्वरूपेणौद्वृत्तवृषभसदृशोयमग्निः एनेद्यावापृ- थिव्यौ अभिअभिक्रम्यव्याप्यववक्षे वहति व्याप्नोतीत्यर्थः वहतेर्लेटिछान्दसःशपःश्लुःलोपस्तआत्मने- पदेष्वितितलोपः सिब्बहुलमितिसिप् वृष्ट्यादिप्रदानेन हविर्वहनेनचलोकद्वयवासिनोदेवान्मनुष्यां- श्चरक्षतीत्यर्थः किंचायंअजरः जरारहितः ऋष्वःमहान् पूज्यः महन्नामैतत् ऋष्वः उक्षइतितन्नामसु- पाठात् तथाइतऊतिः प्राप्तरक्षणःसन् तस्थौ स्थितः वर्तते यद्वा उक्तगुणोयं इतऊतिः एतएवगमनवा- न् अस्मद्देवयजनाभिमुखगमनवान् तस्थौ वर्तते तदनन्तरं उर्व्याः विस्तृतायाः भूम्याः सानौसमुच्छ्रि- तेप्रदेशे वेदिलक्षणे पदोनिदधाति पदानि स्थापयति करोति किंचास्याग्नेः अरुषासः अरुषाआरोच- नाज्वालाः ऊधःस्थानीयमन्तरिक्षं रिहन्ति लिहंति यद्वा अस्योधः ऊधःस्थानीयं यज्ञं अरुषासःआरो- चनाः ब्रह्मवर्चसेनयजमानाः रिहन्ति अभिमतस्वर्गादीनिलिहन्ति ॥ २ ॥