पु॒रु॒त्रा यदभ᳚व॒त्सूरहै᳚भ्यो॒ गर्भे᳚भ्यो म॒घवा᳚ वि॒श्वद᳚र्शतः ॥
पदपाठः (Word-by-word)
पु॒रु॒॑त्रा । यत् । अभ᳚वत् । सूः । अह᳚ । ए॒भ्यः॒ । गर्भे᳚भ्यः । म॒घ॑वा᳚ । वि॒श्व॑द᳚र्शतः ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः काष्ठासुपरस्परंव्यावर्तमानासुदशदिक्षुदिदृक्षेण्यः अनुग्रहदृष्ट्यादर्शनयुक्तोभवति यद्वा द्रष्टुमेष्टव्यः दर्शनेच्छाविषयभूतः दृशेःसन्नन्तात्कृत्यार्थेतवैकेन्केन्येतिकेन्यप्रत्ययः अतएवजेन्यः सर्वत्र- प्रादुर्भवनशीलोभवतिजयशीलोवा किंच प्रदानसमयेईळेन्यः स्तुत्योभवति किमर्थमेवंमहोमहतोदे- वादेः अर्भायअर्भकस्याल्पस्य यजमानादेर्वाजीवसेजीवनाय हविर्वहनेनप्रधनप्रदानेनेतिविविकःतत्रो- पपत्तिमाह—यदह यसमात्खलु पुरुत्रा बहुषु देशेषु देवमनुष्येत्यादिना त्राप्रत्ययःमघवा हविर्लक्षणा- न्नवान् विश्वदर्शतः सर्वद्रष्टव्यविषयवानयमग्निः एभ्योगर्भेभ्यः षष्ठ्यर्थेचतुर्थी एषामृत्विजांगर्भव- च्छिशुवदत्यन्तरक्षणीयानांसूरभवत् प्रसविता उत्पादयिताभवत् भवति तस्मान्नानाहृदारक्षमाणाः कवयः पदंनयन्तीतिपूर्वत्रसंबन्धः ॥ ५ ॥
कथातइतिपंचर्चंसप्तमंसूक्तंदैर्घतमसमाग्नेयंत्रैष्टुभं कथेत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोर- स्यसूक्तस्यविनियोगः त्रिमूर्धानमितित्रीणीत्यनेनोक्तः ।