श्रवणम्

1.162.15
मा त्वा॒ग्निर्ध्व᳚नयीद्धू॒मग᳚न्धि॒र्मोखा भ्राज᳚न्त्य॒भि वि᳚क्त॒ जघ्रि᳚ः ।
इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष᳚ट्कृतं॒ तं दे॒वास॒ः प्रति᳚ गृभ्ण॒न्त्यश्व᳚म् ॥
▶ पदपाठः (Word-by-word)
मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒म॑ग᳚न्धिः । मा । उ॒खा । भ्राज᳚न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः᳚ ।
इ॒ष्टम् । वी॒तम् । अ॒भि॑गू᳚र्तम् । वष᳚ट्॑कृतम् । तम् । दे॒वासः᳚ । प्रति᳚ । गृ॒भ्ण॒न्ति॒ । अश्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्वत्वात्वां धूमगंधिः धूमेनव्याप्तोऽग्निः माध्वनयीत् माध्वनयतु धूमंदृष्ट्वाशब्दंमाकुर्वित्यर्थः अश्वस्यशब्देनप्रायश्चित्तविधानात् यद्वा हेपच्यमानाश्वावयव त्वात्वांधूमगंधिरग्निर्माध्वनयीत् ध्व- नौसति भांडभंगः स्यात् नोनयतीत्यादिनाचङ्प्रतिषेधः ह्न्यंतक्षणेतिवृद्भ्यभावः किंचभ्रा जंतीअत्यं- ताग्निसंयोगेनदीप्ताउखास्थाली मा अभिविक्त अभितोमाचीचलत् तापातिशयेनमानीनशदित्यर्थः ओविजीभयचलनयोः छांदसोविकरणस्यलुक् लुङिवाझलोझलीतिसलोपः स्थालीविशेष्यते जघ्रिः जिघ्रतीतापेन घ्रागंधोपादाने आदृगमहनइतिकिन्प्रत्ययः तंतादृशमश्वं इष्टंहोतुमिषितं वीतंहोमा- यानीतं अभिगूर्तंआभिमुख्येनप्रदानायोद्यतं यद्वा इष्टंप्रयाजैराप्रीतंवीतं पर्यग्निक्रुतंअभिगूर्तं येयजा- महेइत्यागूरित्योक्तम् वषट्कृतं वषट्कारेणदेवसंस्कृतं एवंभूतं तंदेवासोदेवाः प्रतिगृभ्णंति प्रति- गृह्णन्ति ॥ १५ ॥