श्रवणम्

1.162.2
यन्नि॒र्णिजा॒ रेक्ण᳚सा॒ प्रावृ᳚तस्य रा॒तिं गृ᳚भी॒तां मु᳚ख॒तो नय᳚न्ति ।
सुप्रा᳚ङ॒जो मेम्य᳚द्वि॒श्वरू᳚प इन्द्रापू॒ष्णोः प्रि॒यमप्ये᳚ति॒ पाथः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । निः॒॑निजा᳚ । रेक्ण᳚सा । प्रावृ᳚तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय᳚न्ति ।
सु॑प्रा᳚ङ् । अ॒जः । मेम्य᳚त् । वि॒श्व॑रू᳚पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि᳚ । ए॒ति॒ । पाथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यस्मात् निर्निजा निर्निगितिरूपनाम निर्णिक् वव्रिरिति रूपनामसुपाठात् रेक्णसा रेक्णइति- धननाम रेक्णः रिक्थमितितन्नामसूक्तत्वात् उभयत्रमत्वर्थोलुप्यते रूपवता हिरण्यवता आभरणेन- प्रावृतस्य सर्वतोवेष्टितस्याश्वस्यमुखतः पुरस्ताद्गृभीतां गृहीतांरातिंदातव्यां दातव्यत्वेनगृहीतामजां नयन्तिऋत्विजः सतादृशोजः सुप्राङ् सुष्ठुप्रशस्यगमनः मेम्यत् हन्यमानः मीञ् हिंसायां अस्माद्यङ्लु- गन्तात्कर्मणिव्यत्ययेनशतृ यद्वा तस्यशब्दानुकरणं मेमेशब्दंकुर्वन् विश्वरूपः बहुवर्णोपेतः कृष्णग्रीवः कृष्णललाटइत्येवमनेकवर्णइत्यर्थः एवंरूपोयः इन्द्रापूष्णोः इन्द्रःप्रसिद्धः पूषापोषकोदेवोऽग्निः तयोः प्रियं आग्नेयः कृष्णग्रीवइत्युक्तत्वात् अग्नेः प्रियत्वं सर्वेपींद्रस्येतींद्रप्रियत्वं एवंरूपंपाथोन्नमप्येतिप्राप्नो- तु ॥ २ ॥