यदश्वा᳚य॒ वास᳚ उपस्तृ॒णन्त्य᳚धीवा॒सं या हिर᳚ण्यान्यस्मै ।
सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ॥
सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ॥
पदपाठः (Word-by-word)
यत् । अश्वा᳚य । वासः᳚ । उ॒प॒॑स्तृ॒णन्ति᳚ । अ॒धी॒वा॒सम् । या । हिर᳚ण्यानि । अ॒स्मै॒ ।
स॒म्॑दान᳚म् । अर्व᳚न्तम् । पड्बी᳚शम् । प्रि॒या । दे॒वेषु᳚ । आ । य॒म॒य॒न्ति॒ ॥
स॒म्॑दान᳚म् । अर्व᳚न्तम् । पड्बी᳚शम् । प्रि॒या । दे॒वेषु᳚ । आ । य॒म॒य॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अश्वायसंज्ञप्यमानाय अधीवासंउपर्याच्छादनयोग्यं यत् वासउपस्तृणन्ति सर्वतआच्छादयन्ति स्तृञ् आच्छादने क्रैयादिकः तथास्मैअश्वाय या यानिहिरण्यानि सौवर्णराजतकांस्यानिपात्राणिक- ल्पयन्ति तथाअर्वतं षष्ठ्यर्थेद्वितीया अर्वतोश्वस्यसंदानं शिरोबंधनं पड्वीशंपादेषु प्रविष्टंपादबंधनं एतानिप्रिया देवानां प्रियतराणिचात्वालेबद्ध्वा स्थापितानि देवेष्वायामयन्ति प्रापयन्ति ॥ १६ ॥