श्रवणम्

1.162.17
यत्ते᳚ सा॒दे मह᳚सा॒ शूकृ᳚तस्य॒ पार्ष्ण्या᳚ वा॒ कश᳚या वा तु॒तोद᳚ ।
स्रु॒चेव॒ ता ह॒विषो᳚ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म᳚णा सूदयामि ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । सा॒दे । मह᳚सा । शूकृ᳚तस्य । पार्ष्ण्या᳚ । वा॒ । कश᳚या । वा॒ । तु॒तोद᳚ ।
स्रु॒चा॑इ᳚व । ता । ह॒विषः᳚ । अ॒ध्व॒रेषु᳚ । सर्वा᳚ । ता । ते॒ । ब्रह्म᳚णा । सू॒द॒या॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महसाबलेनशूक्रुतस्य शब्दानुकरणमेतत् शूत्कारंकुर्वतः तेतवसादेसदने गमने निमित्तभूते गमने निमित्तभूते सति सदेर्भावेघञ् कर्षात्वतइत्यन्तोदात्तत्वं अर्थतोगमनं कुर्वन् शूत्कारंकुर्वतस्ते त्वां पा- ष्णर्यावाकशयावातुतोद व्यथयति यद्यस्मात्तस्मात्तेतव ता तानि सर्वा सर्वाणि अध्वरेषुयागेषु ब्रह्म- णामंत्रेणसूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः तत्रदृष्टान्तः—अध्वरेषुयागेषु ब्रह्मणामंत्रेण- सूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः तत्रदृष्टान्तः—अध्वरेषु यागेषु हविषः हविराज्यादिकं स्रुचेव स्रुचायथा सूदयंति तद्वत् ॥ १७ ॥