श्रवणम्

1.162.18 समानपद
चतु᳚स्त्रिंशद्वा॒जिनो᳚ दे॒वब᳚न्धो॒र्वङ्क्री॒रश्व᳚स्य॒ स्वधि᳚ति॒ः समे᳚ति ।
अच्छि᳚द्रा॒ गात्रा᳚ व॒युना᳚ कृणोत॒ परु᳚ष्परुरनु॒घुष्या॒ वि श᳚स्त ॥
▶ पदपाठः (Word-by-word)
चतुः᳚॑त्रिंशत् । वा॒जिनः᳚ । दे॒व॑ब᳚न्धोः । वङ्क्रीः᳚ । अश्व᳚स्य । स्व॑धि᳚तिः । सम् । ए॒ति॒ ।
अच्छि᳚द्रा । गात्रा᳚ । व॒युना᳚ । कृ॒णो॒त॒ । परुः᳚॑परुः । अ॒नु॒॑घुष्य᳚ । वि । श॒स्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनोऽश्वस्यदेवबंधोः देवानांप्रियस्य चतुस्त्रिंशद्वंक्रीः एतत्संख्यान्युभयपार्श्वास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति सम्यग्गच्छति छेदनायइतरेषांअजादीनांषड्विंशतिरेव षड्विंशतिरस्यवं- क्रयइतिप्रैषात् हेविशसनकर्तः अस्याश्वस्यगात्राणिशरीरावयवान् अच्छिद्राणियथाभवन्तितथाव- युना वयुनानि प्रज्ञानानि वयुनमितिप्रज्ञानाम वयुनंअभिख्येतितन्नामसूक्तत्वात् कृणोत कुरुत तप्त- नप्तनथनाश्चेतितबादेशः हृदयजिह्वावक्षः प्रभृतीनिप्रज्ञायमध्येछिन्नानि माकुरुतेत्यर्थः तदर्थंपरुःपरुः प्रतिर्वप्रतिहृदयाद्यवयवं अनुघृष्यइदमवद्यमिति संशब्द्यैवविशस्त विशासनंकुरुत शसुहिंसायां छांद- सःशपोलुक् गात्रंगात्रमस्यानूनंकृणुतादितिप्रैषात् ॥ १८ ॥