श्रवणम्

1.162.6
यू॒प॒व्र॒स्का उ॒त ये यू᳚पवा॒हाश्च॒षालं॒ ये अ᳚श्वयू॒पाय॒ तक्ष᳚ति ।
ये चार्व᳚ते॒ पच᳚नं स॒म्भर᳚न्त्यु॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ॥
▶ पदपाठः (Word-by-word)
यू॒प॒॑व्र॒स्काः । उ॒त । ये । यू॒प॒॑वा॒हाः । च॒षाल᳚म् । ये । अ॒श्व॒॑यू॒पाय᳚ । तक्ष᳚ति ।
ये । च॒ । अर्व᳚ते । पच᳚नम् । स॒म्॑भर᳚न्ति । उ॒तो इति᳚ । तेषा᳚म् । अ॒भि॑गू᳚र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यूपव्रस्काः यूपार्हवृक्षस्यव्रश्चनकर्तारः छेत्तारः उत येच यूपवाहाः छिन्नस्यवोढारः येच चषालं यूपस्योपरिस्थाप्यंयूपाग्रभागंचषालमाहुः अश्वयूपाय अश्वबंधनयूपायतक्षतीति वचनव्यत्ययः तक्ष- णेनतनूकुर्वंति येचार्वते अरणवतेऽश्वायपचनं पाकसाधनं काष्ठभांडादिकं संभरंति साधुसंपादयंति उतो अपिच नोऽस्मत्संबंधिनां तेषामृत्विजामभिगूर्तिः संकल्पः सर्वथाकरणीयमितिबुद्धिरिन्वतुव्या- प्नोतु इन्वतिर्व्याप्तिवचनः इन्वति ननक्ष इतितद्वचनेषुपाठात् यद्वा तेषामभिगूर्तिर्नोऽस्मानिन्वतु यागं साधुपारं प्रापय्यफलेनयोजयत्वित्यर्थः ॥ ६ ॥