को वो॒॑न्तर्म᳚रुत ऋष्टिविद्युतो॒ रेज᳚ति॒ त्मना॒ हन्वे᳚व जि॒ह्वया᳚ ।
ध॒न्व॒च्युत᳚ इ॒षां न याम᳚नि पुरु॒प्रैषा᳚ अह॒न्यो॒३॒᳚ नैत᳚शः ॥
ध॒न्व॒च्युत᳚ इ॒षां न याम᳚नि पुरु॒प्रैषा᳚ अह॒न्यो॒३॒᳚ नैत᳚शः ॥
पदपाठः (Word-by-word)
कः । वः॒ । अ॒न्तः । म॒रु॒तः॒ । ऋ॒ष्टि॒॑वि॒द्यु॒तः॒ । रेज᳚ति । त्मना᳚ । हन्वा᳚॑इव । जि॒ह्वया᳚ ।
ध॒न्व॒॑च्युतः᳚ । इ॒षाम् । न । याम᳚नि । पु॒रु॒॑प्रैषाः᳚ । अ॒ह॒न्यः᳚ । न । एत᳚शः ॥
ध॒न्व॒॑च्युतः᳚ । इ॒षाम् । न । याम᳚नि । पु॒रु॒॑प्रैषाः᳚ । अ॒ह॒न्यः᳚ । न । एत᳚शः ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः हेरुष्टिविद्युतः मेघभेदेनायुधविशेषेण विद्योतमानाः वोयुष्माकमन्तः युष्मासुमध्ये स्थि- त्वाकः पुमान् रेजतिचालयति प्रेरयति तर्हिकथंचालनमितिउच्यते त्मनाआत्मनैवचालने दृष्टान्तः— जिह्वयाहन्वेव द्विवचनस्यआकारः हनूइव तौयथारसनयाचाल्येते तद्वत् यद्यप्येवंतथापिइषांअन्ना- नां तत्साधनानां सस्यानां यामनि प्राप्तौसमृद्भ्यर्थं धन्वच्युतोन धन्वन् शब्दोन्तरिक्षस्यवचनः तेनत- त्स्थमुदकंलक्ष्यते उदकस्राविणोमेघाइव तेयथाआकांक्ष्यन्ते तथायुष्मानन्नादिप्राप्तये पुरुप्रैषाः बहुवि- धं फलमिच्छन् यजमानः स्तोत्रैः बहुप्रकारमाकारयतीत्यर्थः तत्रदृष्टान्तः—अहन्यः अह्निभवः एत- शोन अश्वइव सयथा शिक्षकेणनानाप्रकारं प्राप्यते तद्वत् ॥ ५ ॥