श्रवणम्

1.168.2 समानपद
व॒व्रासो॒ न ये स्व॒जाः स्वत᳚वस॒ इषं॒ स्व᳚रभि॒जाय᳚न्त॒ धूत᳚यः ।
स॒ह॒स्रिया᳚सो अ॒पां नोर्मय᳚ आ॒सा गावो॒ वन्द्या᳚सो॒ नोक्षणः᳚ ॥
▶ पदपाठः (Word-by-word)
व॒व्रासः᳚ । न । ये । स्व॒॑जाः । स्व॑त᳚वसः । इष᳚म् । स्वः᳚ । अ॒भि॒॑जाय᳚न्त । धूत᳚यः ।
स॒ह॒स्रिया᳚सः । अ॒पाम् । न । ऊ॒र्मयः᳚ । आ॒सा । गावः᳚ । वन्द्या᳚सः । न । उ॒क्षणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोवव्रासोन वव्रिरितिरूपनाम रूपवन्तइव तेयथाप्रकृष्टालक्ष्यन्तेतद्वत् यद्वा अरूपाअपिस- रूपाइव स्वजाः स्वयमेवस्वस्माद्वाजायमानाः अनन्यहेतुकाइत्यर्थः धूतयः कम्पनशीलाः सन्तितेइषं- अन्नंहविर्लक्षणं अन्नसाधनंसस्यादिकंवा स्वः स्वर्गंचाभिजायन्त अभिलक्ष्यप्रादुर्भवन्ति तेदृष्टान्तमुखे- नश्रूयन्ते—अपांनोर्मयः उदकानामूर्मयइव सहस्रियासः सहस्रसंमिताः तथावंद्यासः बहुक्षीरादिप्रद- त्वेनस्तुत्यागावोन गावइव आसा समीपेएवौक्षणः वृष्ट्युदकस्यसेक्तारः तादृशामरुतः प्रादुर्भवन्ती- त्यन्वयः ॥ २ ॥