श्रवणम्

1.168.6
क्व᳚ स्विद॒स्य रज᳚सो म॒हस्परं॒ क्वाव᳚रं मरुतो॒ यस्मि᳚न्नाय॒य ।
यच्च्या॒वय᳚थ विथु॒रेव॒ संहि᳚तं॒ व्यद्रि᳚णा पतथ त्वे॒षम᳚र्ण॒वम् ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । स्वि॒त् । अ॒स्य । रज᳚सः । म॒हः । पर᳚म् । क्व᳚ । अव᳚रम् । म॒रु॒तः॒ । यस्मि᳚न् । आ॒॑य॒य ।
यत् । च्य॒वय᳚थ । वि॒थु॒रा॑इ᳚व । सम्॑हि᳚तम् । वि । अद्रि᳚णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यूयंयस्मिन्नुदकनिमित्तभूतेसतिआययाअगच्छत अस्यरजसोवृष्ट्युदकस्यलोकस्य वाम- होमहतः परंपारं अन्तंक्वस्वित् कुत्रास्तीति नास्तीत्यर्थः तथा अवरं अवाङ्मागाआदिश्च क्वस्वित् कु- त्रास्ति आद्यन्तंनकोपिजानातीत्यर्थः यद्यदायूयंविथुरेववि थुराणिशिथिलानितृणानीवसंहितंएक- भूतंउदकंच्यावयथस्वस्थानाच्चालयथ तदा अद्रिणावज्रेणत्वेषंदीप्तं अर्णवं उदकवन्तंमेघंविपतथवि- शीर्णंपातयथ ॥ ६ ॥