ए॒ष व॒ः स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य᳚ मा॒न्यस्य᳚ का॒रोः ।
एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
पदपाठः (Word-by-word)
ए॒षः । वः॒ । स्तोमः᳚ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य᳚ । मा॒न्यस्य᳚ । का॒रोः ।
आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे᳚ । व॒याम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे᳚ । व॒याम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
सायणभाष्यम् (Sayana Commentary)
एषवइतिदशमीव्याख्याता ॥ १० ॥
महश्चित्त्वमित्यष्टर्चंपञ्चमंसूक्तं ऎन्द्रमागस्त्यंत्रैष्टुभं द्वितीयाचतुष्पदाविराट् अथचतुष्पदाविराट् दशकैरित्युक्तत्वात् विराजोदिशइति पिङ्गलनागेनसूत्रितत्वाच्च महोष्टौ द्वितीयाविराळित्यनुक्रम- णिका । समूह्ळेदशरात्रेद्वितीयेछन्दोमेमरुत्वतीये इदं विश्वजितोग्निंनरइतिखण्डेसूत्रितम्—द्वितीय- स्यशंसामहांमहश्चित्त्वमिन्द्रेति ।