श्रवणम्

1.174.4
शेष॒न्नु त इ᳚न्द्र॒ सस्मि॒न्योनौ॒ प्रश᳚स्तये॒ पवी᳚रवस्य म॒ह्ना ।
सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी᳚ धृष॒ता मृ᳚ष्ट॒ वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
शेष᳚न् । नु । ते । इ॒न्द्र॒ । सस्मि᳚न् । योनौ᳚ । प्र॑श᳚स्तये । पवी᳚रवस्य । म॒ह्ना ।
सृ॒जत् । अर्णां᳚सि । अव᳚ । यत् । यु॒धा । गाः । तिष्ठ᳚त् । हरी॒ इति᳚ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेशत्रवः सस्मिन् सर्वस्मिन्समानेवायोनौस्वकीयेस्थानेअन्तरिक्षेवा योनिरन्तरिक्षं नुक्षिप्रं- शेषन् शेरतां शीङोलेट्यडागमः व्यत्ययेनपरस्मैपदं सिब्बहुलमितिसिप् किमर्थं प्रशस्तये प्रशंसनाय त्वत्स्तुतयेत्वन्महिमाख्यापनायेत्यर्थः किंसेवनादिसाधनेन नेत्याह पवीरवस्यकुलिशस्यकुलिशशब्द- स्यवामह्नामहिम्ना त्वद्वज्रप्रहारेणहतामेघाः शत्रवोवातत्रैवशेरतेनिपतन्ति नपलायन्तइत्यर्थः किञ्च यत् यदायुधाप्रहरणसाधनेनायुधेनयुद्धेनवा गाः गच्छति तदार्णांस्युदकानि सृजः अवसृजः अवाङ्मु- खमपातयः पुरुषव्यत्ययः तदर्थंहरीअश्वौतिष्ठत् अध्यतिष्ठः अत्रापिपुरुषव्यत्ययः यद्वा यदाहरीअधि- तिष्ठसितदाअवसृजः अथैवंक्रुत्वावाजानन्नानिसस्यादिलक्षणानि धृषताधर्षकेणसामर्थ्येन मृष्टशोधय प्रवर्धयेत्यर्थः ॥ ४ ॥