स नो॒ विश्वा᳚सां स्पृ॒धां स᳚हो॒दा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
पदपाठः (Word-by-word)
सः । नः॒ । विश्वा᳚साम् । स्पृ॒धाम् । स॒हः॒॑दाः । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वमस्माकंविश्वध विश्वस्मिन्नपिकालेविश्वप्रकारैर्वाअवृकतमः अहिंसकतमः यद्वा दातृतम- इत्यर्थः स्याः भव तथानरांनृपाताअस्मदीयानांपुत्रभृत्यादिरूपाणांबहूनांमनुष्याणां सर्वदारक्षकोभव अपरोनृशब्दोनुवादः किञ्च सत्वंविश्वासांस्पृधांसर्वासांस्पर्धानिमित्तानांअस्मत्सेनानांसहोदाः तासा- मर्थायबलस्यदातभव विद्यामेतिगतम् ॥ १० ॥
मत्स्यपायीतिषळृचमेकादशंसूक्तंआगस्त्यमैन्द्रं आद्यास्कन्धोग्रीवीबृहती द्वितीयपादस्य द्वादशा- क्षरत्वात् इतरेषांत्रयाणामष्टाक्षरत्वाच्च द्वितीयश्चेन्न्यंकुसारिण्युरोवृहतीवास्कन्धोग्रीवीवेत्युक्तलक्षण- सद्भावात् अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया आनुष्टुभन्त्वितिविशेषवचनेनापोहितत्वादनुष्टु- भः मत्सिषळानुष्टुबंतुत्रिष्टुबन्तंत्वाद्यास्कन्धोग्रीवीत्यनुक्रान्तम् । द्वितीयेस्वरसाम्नि आद्यस्तृचःस्तो- त्रियः अभिजिद्बृहत्पृष्ठइतिखण्डेसूत्रितम्—मत्स्यपायितेमहएमेनंप्रत्येतनेति ।