ग्रावा॒ यत्र॒ वद᳚ति का॒रुरु॒क्थ्य१॒᳚स्तस्येदिन्द्रो᳚ अभिपि॒त्वेषु᳚ रण्यति ॥
पदपाठः (Word-by-word)
ग्रावा᳚ । यत्र᳚ । वद᳚ति । का॒रुः । उ॒क्थ्यः᳚ । तस्य᳚ । इत् । इन्द्रः᳚ । अ॒भि॒॑पि॒त्वेषु᳚ । र॒ण्य॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
स्वपत्याय शोभनापतहेतुभूताय कर्मणे बर्हिर्वा यद्यदा वृज्यते छिद्यते अध्वर्युणा यागार्थमाह्रियते । अर्को वा स्तोत्रनिष्पादको होता वा श्लोकं स्तुतिरूपां वाचं दिवि द्योतमाने यज्ञे यदाघोषते उच्चारयति । यत्र यस्मिन्काले ग्रावाभिषवार्थं प्रवृत्त उपलो वदति शब्दं करोति । तत्र दृष्टांतः । कारुरुक्थ्यः । लुप्तोपममेतत् । उक्थ्यस्य शस्त्रस्य शंसिता कारुः स्तोता यथाभिमतशब्दं करोति तद्वत् । तस्य पूर्वोक्तस्य सर्वस्याभिपित्वेष्वभिप्राप्तिष्विंद्रो रण्यति । रमते । यद्वा । पूर्वोक्तानां बर्हिरादीनामभिप्राप्तिषु सतीष्विंद्रो रण्यति । अस्मदीयो यागो भविष्यतीति हर्पशब्दं करोति ॥ वृज्यते । वृजी वर्जने अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । आघोषते । घुषिर् विशब्दने । भौवादिकः । अत्रापि यदित्यस्य निपातस्यानुषंगान्निघाताभावः । रण्यति । रमु क्रीडायाम् । व्यत्ययेन श्यन् परस्मैपदं च । अंत्यविकारश्छांदसः । यद्वा । रण शब्दार्थः । व्यत्ययेन श्यन् ॥ ५ ॥