आ गा आ᳚जदु॒शना᳚ का॒व्यः सचा᳚ य॒मस्य᳚ जा॒तम॒मृतं᳚ यजामहे ॥
पदपाठः (Word-by-word)
आ । गाः । आ॒ज॒त् । उ॒शना᳚ । का॒व्यः । सचा᳚ । य॒मस्य᳚ । जा॒तम् । अ॒मृत᳚म् । य॒जा॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
पणिभिरपहृतासु गोष्वथर्वैतत्संज्ञ ऋषिर्यज्ञैरिंद्रदेवत्यैरनुष्ठितैर्यागैः पथो गोसंबंधिनो मार्गान् प्रथमस्तते । तनुते । सर्वेभ्य ऋषिभ्य पूर्वमेव कृतवानित्यर्थः । ततस्तदनंतरं व्रतपा व्रतानां कर्मणां पालयिता वेनः कांतः सूर्यः सूर्यरूप इंद्र आजनि । गवां प्रदर्शनायाविरभूत् । ततोऽथर्वा ता गा आजत् । आभिमुख्येन प्राप्नोत् । तादृशस्येंद्रस्य काव्यः कवेः पुत्र उशना भृगुः सचासुरनिरसनाय सहायोऽभूत् । यमस्यासुराणां नियमनार्थं जातं प्रादुर्भूतममृतं मरणरहितं तमिंद्रं यजामहे । हविर्भिः पूजयामः ॥ पथः । शसि भस्य टीर्लोप इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तते । तनु विस्तारे । बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अजनि । जनी प्रादुर्भावे । दीपजनबुधेत्यादिना । पा ३१-१-६१ । कर्तरि लुङि च्लेश्चिण् । आजत् । अज गतिक्षेपणयोः ॥ ५ ॥