यदि᳚न्द्र॒ हन्त᳚वे॒ मृधो॒ वृषा᳚ वज्रि॒ञ्चिके᳚तसि ।
आ मे᳚ अ॒स्य वे॒धसो॒ नवी᳚यसो॒ मन्म᳚ श्रुधि॒ नवी᳚यसः ॥
पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । हन्त᳚वे । मृधः᳚ । वृषा᳚ । व॒ज्रि॒न् । चिके᳚तसि ।
आ । मे॒ । अ॒स्य । वे॒धसः᳚ । नवी᳚यसः । मन्म᳚ । श्रु॒धि॒ । नवी᳚यसः ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रोनोऽस्माकंसंबन्धिनीं अस्याउषसः कर्मणिषष्ठी एतामुषसंसुत्याहःसंबन्धिनमुषः कालं- उतोजुषेत अपिनामसेवेत उषस्येवास्माकंअयमिन्द्रोयज्ञंगच्छेदित्यर्थः हिःपूरणार्थः गत्वाचअर्कस्यह- विषः पूर्ववत्कर्मणिषष्ठी अर्चनसाधनंहविः हवीमभिः हवनप्रकारविशेषैः दत्तं हविः उतोबोधि अपि- नामजानीहि किंच स्वर्षाता स्वर्गस्यान्यस्यसुखविशॆषस्यवासंभजनस्थानेयज्ञेहवीमभिराह्वानैराहू- तोभवेतिशॆषः अस्माभिराहूतःसन् उषस्येवागत्यहविः स्वीकरोतीत्यर्थः कस्मादिदमुच्यते यद्यस्मा- त्कारणात् हेवज्रिन् वज्रयुक्तेन्द्र मृधःहिंसकान् शत्रून् हन्तवेहन्तुं वृषा वर्षितासन् कामानांचिकेतसि अवबुध्यसे कितज्ञाने जौहोत्यादिकः लेट्यडागमः नाभ्यस्तस्याचिपितीत्यत्रछन्दसिबहुलमितिवच- नाल्लघूपधगुणप्रतिषेधाभावः अभ्यस्तानामादिरित्याद्युदात्तत्वम् तस्माद्ब्रूमः हेइन्द्र मेमम मन्म मननीवंस्तोत्रंआश्रुधिसर्वतःश्रृणुकीदृशस्यमे वेधसः मेधाविनःनवीयसोनवतरस्यदीक्षितसंस्कारैः सं- स्कृतत्वान्नवीयस्त्वं पुनर्विशेष्यते नवीयसः अतिशयेननवनवतः अहाधारप्पस्तुतिमतः अत्रयजमान- विशेषणैस्तत्कूर्तुकंस्तोत्रमेवविशिष्टंभवति ॥ ६ ॥