श्रवणम्

1.79.3
यदी᳚मृ॒तस्य॒ पय᳚सा॒ पिया᳚नो॒ नय᳚न्नृ॒तस्य᳚ प॒थिभी॒ रजि᳚ष्ठैः ।
अ॒र्य॒मा मि॒त्रो वरु᳚ण॒ः परि᳚ज्मा॒ त्वचं᳚ पृञ्च॒न्त्युप᳚रस्य॒ योनौ᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ई॒म् । ऋ॒तस्य᳚ । पय᳚सा । पिया᳚नः । नय᳚न् । ऋ॒तस्य᳚ । प॒थि॑भिः᳚ । रजि᳚ष्ठैः ।
अ॒र्य॒मा । मि॒त्रः । वरु᳚णः । परि᳚॑ज्मा । त्वच᳚म् । पृ॒ञ्च॒न्ति॒ । उप᳚रस्य । योनौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदीं यदायमग्निर्ऋतस्योदकस्य पयसा पयोवत्सारभूतेन रसेन पियानो जगदाप्यायनं कुर्वन् आप्यायितं च जगदृतस्योदकस्य संबंधिभी रजिष्ठैर्ऋजुतमैः पथिभिर्मार्गैः स्नानपानादिभिर्नयन् प्रापयन्वर्तते तदानीमर्यमा मित्रो वरुणश्च परिज्मा परितो गंता मरुद्गणश्चोपरस्य मेघस्य योनौ वृष्ट्युदकोत्पत्तिस्थाने त्वचं पृंचंति । वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयंति । उद्भाटयंतीति यावत् ॥ पियानः । स्फायी ओप्यायी वृद्धौ । बहुलं छंदसीति शपो लुक् । धातोर्व्यत्ययेन पीभावः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । रजिष्ठैः । ऋजुशब्दादिष्ठनि विभाषर्जोश्छंदसि (पा ६-४-१६२) इत्यृकारस्य रत्वम् । टीरिति टलोपः । पृंचंति । पृची संपर्के । रौधादिकः ॥ ३ ॥