श्रवणम्

1.69.4
जने॒ न शेव᳚ आ॒हूर्य॒ः सन्मध्ये॒ निष᳚त्तो र॒ण्वो दु᳚रो॒णे ॥
▶ पदपाठः (Word-by-word)
जने᳚ । न । शेव᳚ । आ॒॑हूर्यः᳚ । सन् । मध्ये᳚ । नि॑स᳚त्तः । र॒ण्वः । दु॒रो॒णे ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधाः । मेधाविनामैतत् । मेधावी । यद्वा । विधाता सर्वस्य कर्ता । अदृप्तो दर्परहितो विजानन् कर्तव्याकर्तव्यविभागं जानन्नग्निर्गोनां गवामूधर्न गोसंबंधिपयस आश्रयभूतं स्थानमिव पितूनामन्नानां स्वाद्म स्वादयिता रसयिता । यथा गोरूधः पयःप्रदानेन सर्वाण्यन्नानि स्वादूनि करोति तद्वदग्निरपि सम्यक्पाकेन सर्वाण्यन्नानि स्वादूनि करोतीत्यर्थः । अपि अचैवंभूतोऽग्निर्जने न शेवो जनपदे लोकसुखकरः पुरुष इव मध्ये यज्ञेषु मध्य आहूर्य आह्वातव्यः सन् दुरोणे यज्ञगृहे निषत्तो निषण्णो रण्वो रमयिता स्तुत्यो वा भवति ॥ गोनाम् । गोः पादांते (पा ७-१-५७) इत्यपादांतेऽपि नुट् । स्वाद्म । स्वाद आस्वादन् । अंतर्भावितण्यर्थादन्येभ्योऽपि दृश्यंत इति मनिन् । सुपां सुलुगिति सोर्लुक् । पितूनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । आहूर्यः आङ् पूर्वात् ह्वयतेरचो यदिति यत् । बहुलम् । छंदसीति संप्रसारणम् । हल इति दीर्घः । रेपोपजनश्छांदसः । यतोऽनाव इत्याद्युदात्तत्वं ॥ ३ ॥ ४ ॥