ए॒ष वां॒ स्तोमो᳚ अश्विनावकारि॒ माने᳚भिर्मघवाना सुवृ॒क्ति ।
या॒तं व॒र्तिस्तन᳚याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ॥
या॒तं व॒र्तिस्तन᳚याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ॥
पदपाठः (Word-by-word)
ए॒षः । वा॒म् । स्तोमः᳚ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने᳚भिः । म॒घ॒॑वा॒ना॒ । सु॒॑वृ॒क्ति ।
या॒तम् । व॒र्तिः । तन᳚याय । त्मने᳚ । च॒ । अ॒गस्त्ये᳚ । ना॒स॒त्या॒ । मद᳚न्ता ॥
या॒तम् । व॒र्तिः । तन᳚याय । त्मने᳚ । च॒ । अ॒गस्त्ये᳚ । ना॒स॒त्या॒ । मद᳚न्ता ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ हेमघवानाहविर्लक्षणान्नवन्तौ वांयुवाभ्यांएषस्तोमः स्तोत्रंसुवृक्तिसुष्ठुपापवजनं यथा- भवतितथा यद्वासुसमासि अकारिकृतः कीदृशोयंमानेभिर्मानैः हविः प्रदानरूपैः सहितः हेनासत्या- असत्यरहितौयुवां अगस्त्येएतन्नाम्निमहर्षौमयिमदन्तामाद्यन्तौ सन्तौ वर्तिर्गृहंयज्ञसंबन्धियातंप्राप्नुतं किमर्थंतनयायपुत्रादिलाभाय त्मनेआत्मनेचहिताय ॥ ५ ॥