अ॒स्मे ऊ॒ षु वृ᳚षणा मादयेथा॒मुत्प॒णी{4}र्ह᳚तमू॒र्म्या मद᳚न्ता ।
श्रु॒तं मे॒ अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णै᳚ः ॥
श्रु॒तं मे॒ अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णै᳚ः ॥
पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । ऊं॒ इति᳚ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद᳚न्ता ।
श्रु॒तम् । मे॒ । अच्छो᳚क्ति॑भिः । म॒ती॒नाम् । एष्टा᳚ । न॒रा॒ । नि॑चे᳚तारा । च॒ । कर्णैः᳚ ॥
श्रु॒तम् । मे॒ । अच्छो᳚क्ति॑भिः । म॒ती॒नाम् । एष्टा᳚ । न॒रा॒ । नि॑चे᳚तारा । च॒ । कर्णैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेवृषणा कामानांवर्षकावश्विनौ युवां अस्मेउ अस्मास्वेवसुमादयेथां सुष्ठुतृप्यतं अस्मभ्यं तर्पयत- मभिमतम् तथपणीन् वणिजोलुब्धकानयष्टृन् उत् उन्मूल्यहतंनाशयतम् कीदृशौयुवां ऊर्म्यारात्रिना- मितत् रात्रौमदन्ता माद्यन्तौ यद्वोर्मिरितिसोमनाम ऊर्मिर्यस्तेपवित्रआइत्यादिषुतथाप्रयोगात् अस्म- दीयेनसोमेनमदन्तौतादृशौयुवांमेममाच्छोक्तिभिराभिमुख्यकरैर्निर्मलवेदवाक्यैरचिताः मतीनां कर्म- णिषष्ठी मननसाधनाः स्तुतीःकर्णैराकर्णनसाधनैः श्रोत्रैः श्रुतंश्रृणुतं हेनरा नेतारौयुवांखलु एष्टा अन्वे- ष्टारावस्मत्स्तुतीनांतथाचनिचेतारालब्धानांतासांसञ्चयकर्तारौ निरित्येषसमित्येतस्यस्थाने यस्मादे- वंविधौतस्माच्छृणुतमिति ॥ २ ॥