उ॒प॒स्थायं᳚ चरति॒ यत्स॒मार᳚त स॒द्यो जा॒तस्त᳚त्सार॒ युज्ये᳚भिः ।
अ॒भि श्वा॒न्तं मृ᳚शते ना॒न्द्ये᳚ मु॒दे यदीं॒ गच्छ᳚न्त्युश॒तीर᳚पिष्ठि॒तम् ॥
अ॒भि श्वा॒न्तं मृ᳚शते ना॒न्द्ये᳚ मु॒दे यदीं॒ गच्छ᳚न्त्युश॒तीर᳚पिष्ठि॒तम् ॥
पदपाठः (Word-by-word)
उ॒प॒॑स्थाय᳚म् । च॒र॒ति॒ । यत् । स॒म्॑आर᳚त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये᳚भिः ।
अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये᳚ । मु॒दे । यत् । ई॒म् । गच्छ᳚न्ति । उ॒श॒तीः । अ॒पि॒॑स्थि॒तम् ॥
अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये᳚ । मु॒दे । यत् । ई॒म् । गच्छ᳚न्ति । उ॒श॒तीः । अ॒पि॒॑स्थि॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
यत् यदा अध्वर्युरुपस्थायंचरति उपस्थायोपस्थायानुतिष्ठति उत्पत्त्यनुकूलव्यापारंकरोति कदे- त्याह यत्समारत समगच्छत मथनेनाविरभवत् समोगम्यृच्छीत्यर्तेरात्मनेपदम् सद्यस्त्दानीमेवजात- उत्पन्नःसन् युज्येभिर्योक्तुंसंबद्धंसमर्थैः फलैर्मिश्रयितुमर्हैस्तेजोभिर्वायुक्तःसन् तत्सार अरण्योर्गूढःसन् चचार यद्वा युज्येभिरश्वैः जातमात्रएव सर्वत्रसंचचार त्सरच्छद्भागतौ लिटिणलिरूपं एवंप्रवृद्धोयं- श्वांतंश्रान्तं शान्तंवायजमानं नन्धेनन्दनीयेकर्मणिनिमित्तभूतेसति मुदे तस्यसंतोषायअभिमृशते अ- भिमर्शनंकरोति फलप्रदानेनेतिभावः यथालोकेगुर्वादिः श्रान्तं शिष्यादिकंस्पृशति तद्वत् कदेतिचेत् उच्यते यद्यदाअपिष्ठितंव्यावर्तमानंईएनमग्निंउशतीः कामयमानाः आज्यधरा स्तुतयोवा गच्छन्ति प्राप्नुवन्ति तदाभिमृशते ॥ ४ ॥