एह्य᳚ग्न इ॒ह होता॒ नि षी॒दाद᳚ब्ध॒ः सु पु᳚रए॒ता भ᳚वा नः ।
अव᳚तां त्वा॒ रोद᳚सी विश्वमि॒न्वे यजा᳚ म॒हे सौ᳚मन॒साय᳚ दे॒वान् ॥
अव᳚तां त्वा॒ रोद᳚सी विश्वमि॒न्वे यजा᳚ म॒हे सौ᳚मन॒साय᳚ दे॒वान् ॥
पदपाठः (Word-by-word)
आ । इ॒हि॒ । अ॒ग्ने॒ । इ॒ह । होता᳚ । नि । सी॒द॒ । अद᳚ब्धः । सु । पु॒रः॒॑ए॒ता । भ॒व॒ । नः॒ ।
अव᳚ताम् । त्वा॒ । रोद᳚सी॒ इति᳚ । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे । यज᳚ । म॒हे । सौ॒म॒न॒साय᳚ । दे॒वान् ॥
अव᳚ताम् । त्वा॒ । रोद᳚सी॒ इति᳚ । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे । यज᳚ । म॒हे । सौ॒म॒न॒साय᳚ । दे॒वान् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने एहि । आगच्छ । इहास्मिन्यज्ञे होता देवानामाह्वाता सन्निषीद । उपविश । नोऽस्माकं पुरएता पुरुतो गंता सु भव । सुष्ठु भव । यस्मात्त्वमदब्धो राक्षसादिभिरहिंस्योऽसि । तादृशं त्वां विश्वमिन्वे सर्वं व्याप्नु वत्यौ रोदसी द्यावापृथिव्यौ त्वा त्वामवताम् । रक्षताम् । आगत्योपविश्य च द्यावापृथिवीभ्यां रक्षितश्च सन् महे महते सौमनसाय सौमनस्याय देवान्दानादिगुणयुक्तानिंद्रादीन्यज । हविर्भिः पूजय ॥ नि षीद । सदेरप्रतेरिति षत्वम् । सौमनसाय । सुमनसो भावः सौमनसम् । तस्येदमिति संबंधसामान्य इत्यण्प्रत्ययः । स चात्र भावलक्षणे संबंधविशेषे पर्यवस्यति । यद्वा । हायनांतयुवादिभ्योऽण् (पा ५-१-१३०) इति भावेऽण् । युवादिष्वस्य पाठो द्रष्टव्यः ॥ २ ॥