श्रवणम्

1.76.3 समानपद
प्र सु विश्वा᳚न्र॒क्षसो॒ धक्ष्य᳚ग्ने॒ भवा᳚ य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ ।
अथा व᳚ह॒ सोम᳚पतिं॒ हरि᳚भ्यामाति॒थ्यम᳚स्मै चकृमा सु॒दाव्ने᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सु । विश्वा᳚न् । र॒क्षसः᳚ । धक्षि᳚ । अ॒ग्ने॒ । भव᳚ । य॒ज्ञाना᳚म् । अ॒भि॒श॒स्ति॒॑पावा᳚ ।
अथ᳚ । आ । व॒ह॒ । सोम᳚॑पतिम् । हरि᳚॑भ्याम् । आ॒ति॒थ्यम् । अ॒स्मै॒ । च॒कृ॒म॒ । सु॒॑दाव्ने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वान्सर्वान्रक्षसो राक्षसान्प्र सु धक्षि । प्रकर्षेण दह । दग्ध्वाच यज्ञानामस्माभिरनुष्ठेयानां यागानामभिशस्तिपावाभिशस्तेर्हिंसायाः पाता रक्षिता भव । अथानंतरं सोमपतिं सर्वेषां सोमानां पालकमिंद्रं हरिभ्यां तदीयाश्वाभ्यामा वह अस्मद्यज्ञं प्रापय । आगतायास्मै सुदाव्ने शोभनस्य फलस्य दात्र इंद्रायातिथ्यमतिथ्यर्हं सत्कारं चकृम । कुर्मः ॥ धक्षि । दह भस्मीकरणे । बहुलं छंदसीति शपो लुक् । ढत्वभष्भावकत्वषत्वानि । अभिशस्तिपावा । शसु हिंसायाम् । अस्मादभिपूर्वाद्भावे क्तिन् । अभिशस्तेः पातीत्यभिशस्तिपावा । पा रक्षणे । आतो मनिन्निति वनिप् । सोमपतिम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । सुदाव्ने । पूर्ववद्ददातेर्वनिप् । अल्लोपोऽन इत्याकारलोपः ॥ ३ ॥