अग्ने᳚ दे॒वा{4} इ॒हा व᳚ह सा॒दया॒ योनि᳚षु त्रि॒षु ।
परि᳚ भूष॒ पिब᳚ ऋ॒तुना᳚ ॥
परि᳚ भूष॒ पिब᳚ ऋ॒तुना᳚ ॥
पदपाठः (Word-by-word)
अग्ने᳚ । दे॒वान् । इ॒ह । आ । व॒ह॒ । सा॒दय᳚ । योनि᳚षु । त्रि॒षु ।
परि᳚ । भू॒ष॒ । पिब᳚ । ऋ॒तुना᳚ ॥
परि᳚ । भू॒ष॒ । पिब᳚ । ऋ॒तुना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने देवानिहास्मिन्कर्मण्या वह । ततो योनिषु स्थानेषु त्रिषु सवनेषु सादय । देवानुपवेशय । ततस्तान्परि भूष । अलंकुरु । ऋतुना सह त्वं सोमं पिब ॥ आग्ने देवानित्ययं पादो गतः । योनिषु । यु मिश्रणे । वहिश्रीत्यादिना (उ ४-५१) नि प्रत्ययः । नित्त्वादाद्युदात्तः । त्रिषु । षट् त्रिचतुर्भ्यो हलादिः (पा ६-१-१७९) इति विभक्तेरुदात्तत्वम् । भूष अलंकारे । तिङ्ङतिङ इति निघातः । पिब ऋतुना । गतौ ॥ ४ ॥