श्रवणम्

1.61.6
अ॒स्मा इदु॒ त्वष्टा᳚ तक्ष॒द्वज्रं॒ स्वप᳚स्तमं स्व॒र्यं१॒᳚ रणा᳚य ।
वृ॒त्रस्य᳚ चिद्वि॒दद्येन॒ मर्म᳚ तु॒जन्नीशा᳚नस्तुज॒ता कि᳚ये॒धाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । त्वष्टा᳚ । त॒क्ष॒त् । वज्र᳚म् । स्वपः᳚॑तमम् । स्व॒र्य᳚म् । रणा᳚य ।
वृ॒त्रस्य᳚ । चि॒त् । वि॒दत् । येन᳚ । मर्म᳚ । तु॒जन् । ईशा᳚नः । तु॒ज॒ता । कि॒ये॒धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वष्टा विश्वकर्मास्मा इदु अस्मा एवेंद्राय वज्रं वर्जकमायुधं रणाय युद्थार्थं तक्षत् । तीक्ष्णमकरोत् । कीदृशं वज्रम् । स्वपस्तममतिशयेन शोभनकर्माणं स्वर्यं सुष्ठु शत्रुषु प्रेर्यं यद्वा स्तुत्यम् । तुजन् शत्रून्हिंसन् ईशान ऐश्वर्यवान् कियेधा । बलवान् एवंगुणविशिष्ट इंद्रो वृत्रस्य चित् आवरकस्यासुरस्य मर्म मर्मस्थानं तुजता हिंसता येन वज्रेण विदत् । प्राहार्षीदित्यर्थः ॥ स्वपस्तमम् । शोभनमपः कर्म यस्यासौ । अतिशयेन स्वपाः स्वपस्तमः । तमपः पित्त्वादनुदात्तत्वम् । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । स्वर्यम् । स्वर्यं ततक्ष । ऋग्वे १-३३-२ । इत्यत्रोक्तम् । विदत् । विद्लृलाभे । लैदित्तात् च्लेरङादेशः । बहुलं छंदस्यमाङ् योगेऽपीत्यडभावः । यद्वृत्तयोगादनिघातः । तुजन् । तुज हिंसायाम् । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । ईशानः । ईश ऐश्वर्ये । शानच्यदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तुजता । शतुरनुम इति विभक्तेरुदात्तत्वम् । कियेधाः अत्र निरुक्तम् । कियेधाः क्रियद्धा इति वा क्रममाणदा इति वेति (नि ६-२०) अस्यायमभिप्रायः । कियत् किंपरिमाणमित्यस्य बलस्य तादृशं बलं दधाति धारयतीति कियद्धाः । यःकोऽप्यस्य बलस्येयत्तां न जानातीत्यर्थः । यद्वा । क्रममाणमाक्रममाणं परेषां बलं धारयति निवारयतीति क्रममाणधाः । उभयत्रापि पृषोदरादित्वात्पूर्वपदस्य कियेभावः । दधातेर्विच् ॥ ६ ॥