श्रवणम्

1.61.13
अ॒स्येदु॒ प्र ब्रू᳚हि पू॒र्व्याणि᳚ तु॒रस्य॒ कर्मा᳚णि॒ नव्य᳚ उ॒क्थैः ।
यु॒धे यदि᳚ष्णा॒न आयु᳚धान्यृघा॒यमा᳚णो निरि॒णाति॒ शत्रू᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ऊं॒ इति᳚ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि᳚ । तु॒रस्य᳚ । कर्मा᳚णि । नव्यः᳚ । उ॒क्थैः ।
यु॒धे । यत् । इ॒ष्णा॒नः । आयु᳚धानि । ऋ॒घा॒यमा᳚णः । नि॒॑रि॒णाति᳚ । शत्रू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्थैः शस्त्रैर्नव्यः स्तुत्यो य इंद्र अस्येदु अस्यैव तुरस्य युद्धार्थं त्वरमाणस्येंद्रस्य पूर्व्याणि पुराणानि कर्माण्येतत्कृतानि बलकर्माणि हे स्तोतः प्र ब्रूहि । प्रशंस । यद्यदा युधे योधनायायुधानि वज्रादीनीष्णान आभीक्ष्णेन प्रेरयन् शत्रूनृघायमाणो हिंसंश्चेंद्रो निरिणाति अभिमुखं गच्छति । तदानीं प्र बूहीति पूर्वेण संबंधः । पूर्व्यमिति पुराणनाम । पूर्व्यमह्नायेति पुराणनामसु पाठात् ॥ तुरस्य । तुर त्वरणे । इगुपधलक्षणः कः । नव्यः । णु स्तुतौ । आचो यदिति यत् । गुणः । धातोस्तन्नि मित्तस्यैवेत्यवादेशः । इष्णानः । आभीक्ष्ण्ये । क्रैयादिकः । व्यत्ययेनात्मनेपदम् । शानचश्चित्त्वादंतोदात्तत्वम् । ऋघायमाणः । नहि त्वा रोदसी उभे ऋघायमाणम् । ऋग्वे १-१०-८ । इत्यत्र व्युत्पादितम् । निरिणाति । री गतिरेषणयोः क्र्यादिभ्यः श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः शिष्यते । तिङि चोदात्तवतीति गतेर्निर्घातः । यद्वृत्तयोगात्तिङ्ङतिङ इति निघाताभावः ॥ १३ ॥