श्रवणम्

1.61.11
अ॒स्येदु᳚ त्वे॒षसा᳚ रन्त॒ सिन्ध᳚व॒ः परि॒ यद्वज्रे᳚ण सी॒मय᳚च्छत् ।
ई॒शा॒न॒कृद्दा॒शुषे᳚ दश॒स्यन्तु॒र्वीत᳚ये गा॒धं तु॒र्वणि᳚ः कः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ऊं॒ इति᳚ । त्वे॒षसा᳚ । र॒न्त॒ । सिन्ध᳚वः । परि᳚ । यत् । वज्रे᳚ण । सी॒म् । अय᳚च्छत् ।
ई॒शा॒न॒॑कृत् । दा॒शुषे᳚ । द॒श॒स्यन् । तु॒र्वीत᳚ये । गा॒धम् । तु॒र्वणिः᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यैवेंद्रस्य त्वेषसा दीप्तेन बलेन सिंधवः समुद्राः । यद्वा । गंगाद्याः सप्त नद्यो रंत । स्वे स्वे स्थाने रमंते । यद्यस्मादयमिंद्रो वज्रेण सीमेनान्सिंधून्वज्रेण पर्ययच्छत् । परितो नियमितवान् । आपि च ईशानाकृत् वृत्रादिशत्रुवधेनात्मानमैश्वर्यवंतं कुर्वन्निंद्रो दाशुषे हविर्दत्तवते यजमानाय फलं दशस्यस् प्रयच्छन् तुर्वणिस्तूर्णसंभजनः । तुर्वणिस्तूर्णवनिरिति यास्कः (नि ६-१४) यद्वा । तुर्विता शत्रूणां हिंसिता । एवंभूत इंद्रस्तुर्वीतय एतत्संज्ञायोदके निमग्नाय ऋषये गाधमवस्थानयोग्यं धिष्ण्यप्रदेशं कः । अकार्षीत् ॥ रंत । रमु क्रीडायाम् । छांदसे । लङि बहुवचने बहुलं छंदसीति शपो लुक् । धातोरंत्यलोपश्छांदसः । अयच्छत् । यम उपरमे । इषुगमियमां छ इति छत्वम् । कः । करोतेर्लुङि मंत्रे घसह्वरणशेत्यादिना (पा २-४-८०) च्लेर्लुक् । गुणः । हल् ङ्यादिना तलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ११ ॥